१९) गङ्गा पापं------।‌।

गङ्गा पापं शशी तापं 
दैन्यं कल्पतरुस्तथा । 
पापं तापं च दैन्यं च 
घ्नन्ति सन्तो महायशा:।। 

पदच्छेद-- 
गङ्गा, पापम्, शशी, तापम्, दैन्यम्, कल्पतरु:, तथा, पापम्, तापम् ,च, दैन्यम् , च, घ्नन्ति, सन्त:, महायशा:।

शब्दार्थ-- 
१) गङ्गा (स्त्री)--
= गंगा नदी 
= गंगा 
= The Ganges

२) पापम् > पाप (नपुं)--
= पाप 
=पाप
= Sin

३) शशी > शशिन् (पुं)--
= चंद्र 
=चंद्रमा / चाँद
= The moon

४) तापम् > ताप (नपुं)--
= ताप 
=ताप
= Anguish/mental pain

५) दैन्यम् > दैन्य (नपुं)--
= दारिद्रय 
=दैन्य (दीनता )
= Poverty

६) तथा (अ) -
= तसेच 
=वैसे
= In the same manner/also

७) कल्पतरु:> कल्पतरु (पुं)--
= कल्पतरू वृक्ष 
=कल्पतरु ( मनोनुकूल द्रव्य देनेवाला वृक्ष )
= The wish fulfilling heavenly tree

८) घ्नन्ति > हन् (२प)--
= नष्ट करतात 
=नष्ट करता है ।
= Destroy

९) सन्त: > सत् (पुं)---
= संत किंवा सज्जन 
= संत 
= The good/righteous people

१०) महायशा: > महायशस् (पु)--
= यशस्वी लोक
= सज्जन या महानुभाव
= Of great fame

प्रश्न--
१) गङ्गा किं हरति? 
२) तापं कः हरति?
३) कल्पतरु: किं नष्टं करोति? 
४) सन्तः किं किं घ्नन्ति? 

अन्वय--     
गङ्गा पापम् (हन्ति)। शशी  तापम् (हन्ति)। कल्पतरु:  दैन्यम् (हन्ति)। तथा महायशा: सन्त: च  पापम्, तापम् दैन्यम्  च घ्नन्ति।

अर्थ--

१) मराठी अर्थ-- 
गंगा पाप नाहीसे करते, चंद्र ताप नाहीसा करतो व कल्पवृक्ष दैन्य नाहीसे करतो. परंतु थोर अंत:करणाचे सज्जन लोक पाप, ताप व दैन्य नाहीसे करतात.

२) संस्कृतार्थ:-- 
अस्मिन् सुभाषिते सज्जनसङ्गस्य महत्वं विशदीकृतम । गङ्गास्नानेन पापं नश्यति इति गङ्गाया: प्रसिद्धि: अस्ति । तथा शशी नाम चन्द्र: तापं नाशयति । यत: तस्य किरणा: शीतला: । कल्पतरु: वाञ्छितं वस्तु याचकेभ्य: ददाति इति तस्य ख्याति: । अत: स: याचकस्य दैन्यम् नाशयति । अपि तु एका सज्जनसङ्गति: पापम् अपि नाशयति, तापम् अपि नाशयति तथा दैन्यम् नाम दारिद्यमपि नाशयति । महायशा: नाम सज्जना: । 

३) हिंदी अर्थ–
गंगा पाप नष्ट करती है , चंद्रमा ताप नष्ट करता है और कल्पवृक्ष दैन्य ( दीनता ) नष्ट करता है किंतु संत , सज्जन  ( महानुभाव ) पाप , ताप और दैन्य (तीनों को ) नष्ट करते है ।

४) English Meaning-- 
The Ganges destroys sin, the moon annihilates  mental suffering, and the wish fulfilling tree destroys poverty. But the righteous people of great fame destroy all the three --sin, mental suffering and poverty.