केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजा:।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।।
न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजा:।
वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।।
✓ पदच्छेद–
केयूरा:, न, विभूषयन्ति, पुरुषम्, हारा:, न, चन्द्रोज्ज्वला:, न, स्नानम्, न, विलेपनम्, न, कुसुमम्, न, अलङ्कृता:, मूर्धजा:,वाणी, एका, समलङ्करोति, पुरुषम्, या, संस्कृता, धार्यते, क्षीयन्ते, खलु, भूषणानि, सततम्, वाग्भूषणम्, भूषणम्।
केयूरा:, न, विभूषयन्ति, पुरुषम्, हारा:, न, चन्द्रोज्ज्वला:, न, स्नानम्, न, विलेपनम्, न, कुसुमम्, न, अलङ्कृता:, मूर्धजा:,वाणी, एका, समलङ्करोति, पुरुषम्, या, संस्कृता, धार्यते, क्षीयन्ते, खलु, भूषणानि, सततम्, वाग्भूषणम्, भूषणम्।
✓ शब्दार्थ--
१) केयूरा: >केयूर (पुं)--
= बाजुबंद
= बाजुबंद
= Armlet
२) न (अ)--
=नाही
=नही
= (Do) not
३) विभूषयन्ति >वि+भूष् (१०प)--
= शोभून दिसते
=शोभा देते है
= Decorate/ adorn
४) पुरुषम् >पुरुष (पुं)--
=पुरुषाला
=पुरुष को
= A man
५) हारा: >हार (पुं)--
=माळा/ हार
=माला /हार
= Garlands
६) चन्द्रोज्ज्वला: > चन्द्रोज्ज्वल (वि, पुं, समास:)--
• चन्द्र: इव उज्ज्वला:।
=चंद्राप्रमाणे तेजस्वी
=चंद्र के समान तेजस्वी
= Lustrous like the moon
७) स्नानम् >स्नान (नपुं)--
=स्नान
=स्नान
= Ablution/bath
८) विलेपनम् > विलेपन (नपुं)--
= सुगंधी लेप लावणे/ चंदनाने देह सुशोभित करणे
=गंधित लेप लगाना
= Anointing
९) कुसुमम् >कुसुम (नपुं)--
=फु
=फुल
= Flower
१०) अलङ्कृता: >अलङ्कृत (वि, पुं)-
=सुशोभित करणे/ अलंकृत करणे
=सुशोभित करना
= Ebellished/decorated
११) मूर्धजा: >मूर्धज (पुं, समास:)--
• मूर्ध्नि जायन्ते इति
=केस
=बाल
= Hair
१२) वाणी (स्त्री)--
=वाचा/ वाणी
=वाचा
= Speech
१३) एका (वि,स्त्री)
=एकच
=एक ही
= Only one/single
१४) समलङ्करोति >सम् + अलम् + कृ (८प)--
=अलंकृत करते
=अलंकृत करती/करते है
= Finely decorates
१५) या >यद् (स्त्री)--
=जे
=जो
= Which
१६) संस्कृता > संस्कृत (वि, स्त्री)--
=परिष्कृत/ सुसंस्कारित
=सुसंस्कारित
= Refined
१७) धार्यते > धृ (१ आ, कर्मणि)-
=धारण करतो
=धारण करते है
= Is adopted/taken up/used
१८) क्षीयन्ते >क्षि (१ प)--
=नाश पावते
=नष्ट होते है
= Get eroded
१९) खलु (अ)--
=निश्चितपणे
=निश्चितता से
= Certainly/assuredly
२०) भूषणानि >भूषण (नपुं)--
=अलंकार
=अलंकार
= Ornaments
२१) सततम् (अ)--
=सदैव/नेहमी
=हमेशा
= Always
२२) वाग्भूषणम् > वाग्भूषण (नपुं, समास:)--
• वाक् एव भूषणम्।
=वाणी रूपी अलंकार
=वाणीरुप अलंकार
= The ornament in the form of speech
✓ प्रश्न--
१) के के पुरुषं न विभूषयन्ति ?
२) कीदृशी वाणी पुरुषं समलङ्करोति?
३) कानि क्षीयन्ते?
४) सततं भूषणं किम्?
✓ अन्वय--
न केयूरा: न चन्द्रोज्ज्वला: हारा: न स्नानं न विलेपनं न कुसुमं न अलङ्कृता: मूर्धजा: पुरुषं विभूषयन्ति। या संस्कृता वाणी (पुरुषेण) धार्यते (सा) एका पुरुषं समलङ्करोति। भूषणानि (तु) सततं क्षीयन्ते (किन्तु) वाग्भूषणं भूषणम् ।
✓ अर्थ--
१) मराठी अर्थ–
बाजूबंद, चंद्राप्रमाणे तेजस्वी अशा माळा,कंठ भूषणे किंवा फुलांनी सजविलेली केशरचना, सुगंधित अशा चंदनाचा लेप लावणे हे पुरुषाला शोभून दिसत नाही.परंतु अतिशय सुसंस्कारित वाणी (बोलणे) हाच पुरुषाचा खरा दागिना आहे.अन्य अलंकार कालांतराने नष्ट होतील पण सुसंस्कारित वाणी मात्र कायम स्वरुपी असा दागिना आहे.
२) संस्कृतार्थ:--
पुरुषं केयुराः ,चन्द्रप्रभायुक्ताः हाराः, स्नानं , विलेपनं, कुसुमैः अलङ्कृताः केशाः न विभूषयन्ति। केवलं एका वाणी या सुसंस्कारिता अस्ति सैव पुरुषं भूषयति। वाग्भूषणम् सर्वश्रेष्ठं भूषणमस्ति। तदपेक्षया सर्वाणि आभूषणानि निरर्थकानि वर्तन्ते।
३) हिंदी अर्थ–
बाजूबंद ,चंद्रमा के समान उज्वल हार , स्नान , सुगंधी लेपन , फुल और सजाई हुई केशरचना , यह सब पुरुषों को शोभा नही बढ़ाते है । केवल सुसंस्कृत प्रकार की वाणी ही उसकी शोभा बढ़ाती है । आभूषण नष्ट हो जाते है परसुसंस्कारित वाणीरुप गहना ही हमेशा हमेशा रहता है ।
४) English Meaning–
Armlets, garlands which are lustrous like the moon, ablutions, anointing, flowers, or decorated hair-- these do not adorn a man. Only a refined mode of speaking which a man adopts, adorns him in the true sense. All other ornaments are subject to erosion. Therefore refined speech is the only true ornament.