असम्भवं हेममृगस्य जन्म
तथापि रामो लुलुभे मृगाय।
प्राय: समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिना भवन्ति।।
तथापि रामो लुलुभे मृगाय।
प्राय: समापन्नविपत्तिकाले
धियोऽपि पुंसां मलिना भवन्ति।।
✓ पदच्छेद--
असम्भवम्, हेममृगस्य, जन्म, तथा, अपि, राम:, लुलुभे , मृगाय, प्राय:, समापन्नविपत्तिकाले, धिय:, अपि,पुंसाम्, मलिना:, भवन्ति।
असम्भवम्, हेममृगस्य, जन्म, तथा, अपि, राम:, लुलुभे , मृगाय, प्राय:, समापन्नविपत्तिकाले, धिय:, अपि,पुंसाम्, मलिना:, भवन्ति।
✓ शब्दार्थ--
१) असम्भवम् >असम्भव (वि, नपुं, समास:)--
• न सम्भवम् ।
= अशक्य
= शक्य नही ऐसा
= Not possible
२) हेममृगस्य >हेममृग (पुं,समास:)--
• हेम्न: मृग:, तस्य।
=सोन्याच्या रंगाचे हरीण
= सोने के हिरण का
= Of a gold-deer
३) जन्म >जन्मन् (नपुं)--
= जन्म
= जन्म
= Birth
४) तथापि (अ)--
= परंतु
= फिर भी
= Even so
५) राम: >राम (पुं)--
=रामाला
= राम
= Rama
६) लुलुभे >लुभ् (४प)--
=लोभ/ मोह झाला
= लुब्ध हुआ
= Got enticed
७) मृगाय >मृग (पुं)--
=सोनेरी हरीणासाठी
= हिरन के लिए
= For the (gold) deer
८) प्राय: >प्रायस् (अ)--
= बहुतेक
= बहुत बार/अक्सर
= Usually/often
९) समापन्नविपत्तिकाले >समापन्नविपत्तिकाल (पुं,समास:)--
• विपत्तीनां काल: विपत्तिकाल:।
• समापन्न: विपत्तिकाल:, तस्मिन्।
=संकटकाळी
= संकट की घडी मे
= In the time of calamity
१०) धिय: >धी (स्त्री)--
=बुध्दी
= बुद्धि
= Intelligence
११) अपि (अ)--
=सुध्दा
= भी
= Also
१२) पुंसाम् >पुंस् (पुं)--
=मनुष्याची
= मनुष्यों की
= Of men (persons)
१३) मलिना: >मलिन (वि, स्त्री)
=दूषित/ भ्रष्ट
= दूषित
= Clouded, soiled
१४) भवन्ति >भू (१प)--
=होते
= हो जाती है।
= Becomes
✓ प्रश्न--
१) हेममृगस्य जन्म कीदृशम्?
२) रामः किमर्थं लुलुभे?
३) कदा पुंसां धियः मलिनाः भवन्ति?
✓ अन्वय--
(यद्यपि) हेममृगस्य जन्म असम्भवम्, तथापि राम: मृगाय लुलुभे। प्राय: समापन्नविपत्तिकाले पुंसां धिय: अपि मलिना: भवन्ति।
✓ अर्थ--
१) मराठी अर्थ–
सोनेरी कांतीच्या हरीणाचा जन्म अशक्य गोष्ट आहे तरीही राम त्या सुवर्ण हरिणाला पाहून मोहित झाला बहुतेक संकटकाळी मनुष्याची बुध्दी भ्रष्ट होते.( हेच खरे!)
२) संस्कृतार्थ:--
हेममृगस्य जन्म कदापि न सम्भवति इति ज्ञाते सत्यपि श्रीरामः स्वर्णमृगं वीक्ष्य मोहितः बभूव। प्रायेण आपत्काले समुत्पन्ने मानवस्य तत्वार्थनिर्णयं कर्तुं निजशक्तिः लुप्यते।
३) हिंदी अर्थ--
सोने के हिरन का जन्म होना शक्य नही है, फिर भी राम उस मृग के लिए लुब्ध हुआ। अक्सर संकट की घडी में मनुष्यों की बुद्धि भी दूषित हो जाती है।
४) English Meaning--
The birth of a gold-deer is not possible, yet Rama was enticed by such a deer. Usually in the time of calamity, the intelligence of man also gets clouded.