य: प्रीणयेत्सुचरितै: पितरं स पुत्रो
यद्भर्तुरेव हितमिच्छति तत्कलत्रम्।
तन्मित्रमापदि सुखे च समक्रियं
यदेतत्त्रयं जगति पुण्यकृतो लभन्ते।।
यद्भर्तुरेव हितमिच्छति तत्कलत्रम्।
तन्मित्रमापदि सुखे च समक्रियं
यदेतत्त्रयं जगति पुण्यकृतो लभन्ते।।
✓ पदच्छेद--
य:, प्रीणयेत्, सुचरितै:, पितरम्, स:, पुत्र:, यत् , भर्तु: एव , हितम् , तत्, कलत्रम्, तत्, मित्रम्, आपदि, सुखे, च, समक्रियम्, यत्, एतत्, त्रयम्, जगति, पुण्यकृत:, लभन्ते।
य:, प्रीणयेत्, सुचरितै:, पितरम्, स:, पुत्र:, यत् , भर्तु: एव , हितम् , तत्, कलत्रम्, तत्, मित्रम्, आपदि, सुखे, च, समक्रियम्, यत्, एतत्, त्रयम्, जगति, पुण्यकृत:, लभन्ते।
✓ शब्दार्थ--
१) य: >यद् (पुं)--
= जो
= जो
= Whosoever
२) प्रीणयेत् >प्री (१० प)--
=समाधान करतो
= प्रसन्न करता है
= Will satisfy/please
३) सुचरितै: >सुचरित (नपुं)--
= चांगल्या वर्तनाने
= अच्छे बर्ताव से
= With good behaviour
४) पितरम् >पितृ (पुं)--
=वडिलांना
= पिता को
= Father
५) स: >तद् (पुं)--
=तो
= वह
= He
६) पुत्र: >पुत्र (पुं)--
=सुपुत्र
= पुत्र
= Son
७) यद् (नपुं)--
=जी
= जो
= Which
८) भर्तु: >भर्तृ (पुं)--
= पतीचे
= पति का
= Of the husband
९) हितम् >हित (नपुं)--
=कल्याण / हित
= हित
= Welfare
१०) इच्छति >इष्- इच्छ् (६प)--
=इच्छा करते
= चाहती है
= Desires
११) तत् >तद् (नपुं)--
=ती
= वह
= It
१२) कलत्रम् >कलत्र (नपुं)--
=पत्नी
= पत्नी
= Wife
१३) मित्रम् >मित्र (नपुं)--
=मित्र
= मित्र
= Friend
१४) आपदि >आपद् (स्त्री)--
=संकटात / दुःखात
= संकट में
= In distress
१५) सुखे >सुख(नपुं)--
=सुखात
= सुख में
= In happiness
१६) च (अ)--
=आणि
= और
= And
१७) समक्रियम् >समक्रिय (वि,नपुं, समास:)-
• समाना क्रिया यस्य तत्।
=समान वागणूक ठेवतो
= समान बर्ताव रखता है।
= Behaving in the same way.
१८) एतत् >एतद् (नपुं)--
=हे
= ये
= This
१९) त्रयम् >त्रय (नपुं)--
=तीन
= तीन
= Triad
२०) जगति >जगत् (नपुं)--
=जगात
= जग में
= In the world
२१) पुण्यकृत: >पुण्यकृत् (पुं,समास:)--
• पुण्यं कुर्वन्ति ते।
=पुण्य कृत्य
= पुण्य करनेवाले
= Doers of good/meritorious deeds.
२२) लभन्ते > लभ् (१आ)--
=लाभतात/ मिळतात
= पाते है।
= Get/attain
✓ प्रश्न--
१) कैः पितरं प्रीणयेत्?
२) कीदृशः पुत्रः भवेत्?
३) कीदृशं कलत्रं भवेत्?
४) पत्नी इत्यस्य कृते किं पदम् अत्र प्रयुक्तम्?
५) कीदृशं मित्रं भवेत्?
६) जगति पृण्यकृतः कानि त्रीणि लभन्ते?
✓ अन्वय--
य: पितरं सुचरितै: प्रीणयेत् स: पुत्र:, यत् भर्तु: एव हितम् इच्छति तत् कलत्रम् , यत् आपदि सुखे च समक्रियं तत् मित्रम् , एतत् त्रयम् जगति पुण्यकृत: (एव) लभन्ते।
✓ अर्थ--
१) मराठी अर्थ–
जो आपल्या चांगल्या वर्तनाने वडिलांना समाधान देतो तोच खरा पुत्र होय.जी सदैव आपल्या पतीचे हित चिंतिते तीच खरी पत्नी होय.जो सुख आणि दुःखाच्या काळात ही एकसारखेच वागतो तोच खरा मित्र होय.परंतु या जगात या तीन ही गोष्टी पुण्यवंतालाच मिळतात.
२) संस्कृतार्थ:--
स्वस्य सदाचरणेन जनकं प्रसादयन् पुत्रः, पत्युः हितं इच्छन्ती पत्नी, सङ्कटे समृद्धौ वा सहकारी सुहृद् एते त्रयः सम्बन्धिनः पुण्यकर्मणामेव फलं अस्ति।
३) हिंदी अर्थ--
जो अपने अच्छे बर्ताव से अपने पिता को प्रसन्न करें ऐसा पुत्र, सदैव पति का हित चाहनेवाली पत्नी, हमारे सुख में और संकट में हमसे समान तरीके से बर्ताव करनेवाला मित्र, ये तीनों जग मे पुण्य करनेवालों को ही नसीब होतें है।
४) English Meaning--
The son who pleases his father by his good behaviour, the wife who always wishes the welfare of her husband, the friend whose behaviour remains unchanged during our period of distress or happiness-- In this world only the doers of meritorious deeds have this trio.