पुस्तकस्था तु या विद्या
परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने
न सा विद्या न तद्धनम्।।
परहस्तगतं धनम्।
कार्यकाले समुत्पन्ने
न सा विद्या न तद्धनम्।।
✓ पदच्छेद--
पुस्तकस्था, तु, या,विद्या, परहस्तगतम् , धनम्, कार्यकाले, समुत्पन्ने, न, सा, विद्या, न , तत्, धनम्।
पुस्तकस्था, तु, या,विद्या, परहस्तगतम् , धनम्, कार्यकाले, समुत्पन्ने, न, सा, विद्या, न , तत्, धनम्।
✓ शब्दार्थ--
१) पुस्तकस्था (स्त्री, समास:)-
• पुस्तके तिष्ठति इति, तत् स्त्रियाम्।
= पुस्तकातील
= पुस्तक में रही हुई
= Contained in the books
२) तु (अ)--
= नक्की
=निश्चित रुप से / ही / तो / ज़रुर
= Certainly
३) या >यद् (स्त्री)--
= जी
=जो
= Which
४) विद्या (स्त्री)--
= विद्या
=विद्या
= Knowledge
५) परहस्तगतम् >परहस्तगत (नपुं,समास:)--
• परस्य हस्त: परहस्त:।
• परहस्तं गतम्।
= दुसऱ्याच्या हाती असलेले धन
=दूसरे के हाथ में गया हुआ
= That which is in the possession of others.
६) धनम् >धन (नपुं)--
= धन
=धन
= Wealth/money
७) कार्यकाले >कार्यकाल (पुं)--
= कामाची वेळ (आली असता)
=कार्यकाल आने पर / ज़रुरत रहते हुए
= (When) the time of need/work
८) समुत्पन्ने >सम् +उद्+पद् (४प) > समुत्पन्न (वि, पुं)--
= उत्पन्न झाल्यावर
=उत्पन्न होनेपर
= Arises
८) न (अ)--
= नाही
=नही
= Not
९) सा >तद् (स्त्री)--
= ती
=वह
= That
१०) तत् >तद् (नपुं)--
= ते
=वो
= That
✓ प्रश्न--
१) पुस्तकस्था का?
२) परहस्तगतं किम्?
३) कार्यकाले समुत्पन्ने कस्य कस्य उपयोगः न भवति?
✓ अन्वय--
या विद्या पुस्तकस्था , यत् च धनं परहस्तगतं कार्यकाले समुत्पन्ने तु न सा विद्या न तत् धनम् (उपयोगि भवति)।
✓ अर्थ--
१) मराठी अर्थ--
पुस्तकातली विद्या आणि परक्याच्या हातात असलेले धन, कामाची वेळ आल्यावर ,ती विद्या आणि ते धन कामी येत नाही.
२) संस्कृतार्थ:--
यत् ज्ञानं केवलं पुस्तके एव वर्तते न बुद्ध्याम् तत् ज्ञानं कठिनप्रसङ्गे प्राप्ते व्यर्थं अथवा स्वस्य धनं यत् परहस्ते गतं तत् धनं यदा आवश्यकता अस्ति तदा व्यर्थं भवति।
३) हिंदी अर्थ–
पुस्तक में रही हुई विद्या और दूसरे के हाथ में गया धन कार्यकाल उत्पन्न होने पर/ज़रुरत पडने पर वह विद्या और धन कुछ काम नही आते है ।
४) English Meaning--
The knowledge which is contained only in the books and wealth which is in the hands of (in the possession of ) others , is useless when the time of work/need arises.