७०) दानं भोगो------।।

दानं भोगो नाशस्तिस्रो 
गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते 
तस्य तृतीया गतिर्भवति।।

पदच्छेद-- 
दानम्, भोग:, नाश:, तिस्र:, गतय:,भवन्ति, वित्तस्य, य: ,न ददाति, न ,भुङ्क्ते, तस्य,तृतीया, गति:, भवति।

शब्दार्थ-- 

१) दानम् > दान (नपुं)--
= दान
= दान
= Giving away in charity

२) भोग: > भोग(पुं)--
= वापर
= उपभोग
= Enjoyment

३) नाश: > नाश (पुं)--
= नाश 
=नाश
= Destruction

४) तिस्र: > त्रि (वि,स्त्री)--
= तीन
=तीन
= Three

५) गतय: >गति (स्त्री)--
= मार्ग 
=गति
= Ways to go

६) भवन्ति > भू (१प)--
= होतात 
=होती है ।
= Are

७) वित्तस्य > वित्त (नपुं)--
= पैश्याच्या 
=धन 
= Of wealth

८) य: >यद् (पुं)--
= जो
=जो
= Who

९) (अ)--
= नाही
=नही
= Not

१०) ददाति > दा (३प)--
= देतो 
=देता है
= Gives away

११) भुङ्क्ते > भुज् (७ आ)--
= उपभोग 
=उपभोग
= Enjoys

१२) तस्य > तद् (पुं)--
= त्याचा 
=उसका
= His

१३) तृतीया (स्त्री)--
= तिसरा 
=तीसरी
= The third

१४) गति: > गति (स्त्री)--
= मार्ग
= गति
= Way to go

१५) भवति > भू(१प)--
= होतो 
= होती है
= Becomes

प्रश्न--
१) वित्तस्य तिस्र: गतय: का:?
२) कस्य धनस्य तृतीया गति: भवति?

अन्वय--
वित्तस्य दानम् भोग: नाश: (इति) तिस्र: गतय: भवन्ति। य: न ददाति, न भुङ्क्ते, तस्य (धनस्य) तृतीया गति: भवति।

अर्थ--

१) मराठी अर्थ-- 
दान, उपभोग व नाश अशा धनाच्या तीन गती होतात. जो मनुष्य (दुसर्‍यास) देत नाही किंवा (स्वत:ही) उपभोग घेत नाही. त्याच्या धनाची तिसरी गती होते.

२) संस्कृतार्थ:-- 
धनस्य तिस्रः गतयः कविः वर्णयति । प्रथमा गति: अस्ति दानम् । दानेन स्वसमीपस्थं धनं परस्य समीपे गच्छति । द्वितीया गति: अस्ति भोग: । धनं भोगेषु समाप्तिं गच्छति । य: दानम् अपि न यच्छति अथवा भोगम् अपि उपभुनक्ति तस्य धनं नाशमार्गेण गच्छति । अत: धनं यच्छेत् अथवा भोगे व्ययं कुर्यात् । 

३) हिंदी अर्थ--
दान , उपभोग और विनाश यह धन की तीन गति होती है । जो (आदमी ) देता नही है या उपभोग लेता नही है , उसके धन की तीसरी गति होती है ।

४) English Meaning-- 
Giving away in charity, enjoyment and destruction are the three ways the wealth can go. He who does not give away his wealth nor enjoy it, his wealth surely goes the third way of destruction.