न चोरहार्यं न च राजहार्यं
न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं
विद्याधनं सर्वधनप्रधानम्।।
न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं
विद्याधनं सर्वधनप्रधानम्।।
✓ पदच्छेद–
न, चोरहार्यम्, न, च, राजहार्यम्, न, भ्रातृभाज्यम्, न, च, भारकारि, व्यये, कृते, वर्धते, एव, नित्यम्, विद्याधनम्, सर्वधनप्रधानम्।
न, चोरहार्यम्, न, च, राजहार्यम्, न, भ्रातृभाज्यम्, न, च, भारकारि, व्यये, कृते, वर्धते, एव, नित्यम्, विद्याधनम्, सर्वधनप्रधानम्।
✓ शब्दार्थ--
१) न (अ)--
= नाही
= नही
= Not
२) चोरहार्यम् >चोरहार्य (नपुं, समास:)--
• चोरेण हार्यम्।
=चोरी होण्या सारखे
=चोरी होने जैसा
= Subject to being stolen by a thief
३) च (अ)--
=आणि
=और
= And
४) राजहार्यम् >राजहार्य (नपुं, समास:)-
• राज्ञा हार्यम्।
=राजाने कर रुपाने घेण्यात सारखे
=राजाने लेने जैसा
= Subject to be attached by the king
५) भ्रातृभाज्यम् >भ्रातृभाज्य (नपुं,समास:)--
• भ्रातृषु भाज्यम्।
= भाईबहनों मे विभाजन होने जैसा
=भावंडांमध्ये वाटणी होण्यासारखे
= Subject to be divided among brothers.
६) भारकारि (नपुं, समास:)--
• भारं करोति इति।
=ओझे
=भार
= Burdensome
७) व्यये कृते (सत्सप्तमी> व्यय , कृत)--
=खर्च केले असता
=खर्चा किया तो
= If spent
८) वर्धते >वृध् (१आ)--
=वाढते
=बढ़ता है
= Increases/grows
९) एव (अ)--
= खात्रीने/ निश्चित
=निश्चित रुप से
= Certainly
१०) नित्यम् (अ)--
= नेहमी
=हमेशा
= Always
११) विद्याधनम् >विद्याधन (नपुं, समास:)--
• विद्या एव धनम्।
= विद्याधन
=विद्या का धन
= Wealth in the form of knowledge
१२) सर्वधनप्रधानम् >सर्वधनप्रधान(नपुं, वि, समास:)
• सर्वाणि धनानि, सर्वधनानि।
• सर्वधनेषु प्रधानम्।
=सर्व धनांत श्रेष्ठ
=सब धनों मे श्रेष्ठ
= prime among all kinds of wealth.
✓ प्रश्न–
१) विद्याधनं केन न हार्यम्?
२) तत् केषु न विभाज्यम्?
३) विद्याधनं कदा वर्धते?
४) तत् कीदृशं धनम्?
✓ अन्वय--
(यत्) न चोरहार्यम्, न च राजहार्यम्, न भ्रातृभाज्यम्, न च भारकारि, व्यये कृते नित्यं वर्धते एव (तत्) विद्याधनम् सर्वधनप्रधानम् (अस्ति)।
✓ अर्थ--
१) मराठी अर्थ–
ज्याची( विद्या रूपी धनाची) चोरी होवू शकत नाही,राजा/ सत्ताधारी जे धन ( कर रूपाने) घेऊ शकत नाही.जे भावंडांमध्ये विभागले जाऊ शकत नाही आणि ज्याचे ओझे होत नाही, खर्च केले असता जे सदैव वाढते असे विद्या धन सर्व धनांमध्ये श्रेष्ठ आहे.
२) संस्कृतार्थ:--
विद्यारूपं धनं चोरै: न हर्तुं शक्यं न नृपैरपि । तत् भ्रातृषु विभज्य दातव्यमपि न भवति। तस्य भार: अपि न भवति। तस्य व्यय: क्रियते चेदपि तत् नित्यं वर्धते एव। अत: एतादृशम् उत्तमगुणयुक्तं विद्याधनं सर्वेषु धनेषु मुख्यम् अस्ति।
३) हिंदी अर्थ--
जिसकी चोरी नही हो सकती , राजा जिसका हरण नही कर सकता , जिसका भाईबहनों में विभाजन नही हो सकता और जो भारभूत नही होता है , खर्चा किया तो हमेशा बढ़ते रहता है ऐसा विद्या धन सब धनों मे श्रेष्ठ है ।
४) English Meaning–
It is not subject to being stolen by thieves, be attached by the king or being divided among brothers. Moreover if it is distributed among others , it always and certainly grows. Thus among all kinds of wealth knowledge is the prime wealth.