क्वचिद्भूमौ शय्या क्वचिदपि च पर्यङ्कशयनं
क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचि: ।
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दु:खं न च सुखम्।।
क्वचिच्छाकाहारी क्वचिदपि च शाल्योदनरुचि: ।
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दु:खं न च सुखम्।।
✓ पदच्छेद--
क्वचित्, भूमौ, शय्या, क्वचित् , अपि,च, पर्यङ्कशयनम्, क्वचित्, शाकाहारी, क्वचित् , अपि, च, शाल्योदनरुचि:,क्वचित्, कन्थाधारी, क्वचित्, अपि,च,दिव्याम्बरधर:,मनस्वी, कार्यार्थी, न, गणयति, दु:खम्, न, च, सुखम्।
क्वचित्, भूमौ, शय्या, क्वचित् , अपि,च, पर्यङ्कशयनम्, क्वचित्, शाकाहारी, क्वचित् , अपि, च, शाल्योदनरुचि:,क्वचित्, कन्थाधारी, क्वचित्, अपि,च,दिव्याम्बरधर:,मनस्वी, कार्यार्थी, न, गणयति, दु:खम्, न, च, सुखम्।
✓ शब्दार्थ--
१) क्वचित् (अ)--
= कधीतरी
= कभी
= Occasionally
२) भूमौ >भूमि (स्त्री)--
=जमिनीवर
= भूमि पर
= On the ground
३) शय्या (स्त्री)--
= झोपणे
= सो जाना
= Sleeping
४) अपि (अ)
=सुध्दा
= भी
= Also
५) च (अ)--
=आणि
= और
= And
६) पर्यङ्कशयनम् >पर्यङ्कशयन (नपुं,समास:)--
• पर्यङ्के शयनम्।
= पलंगावर सुखकारक शय्येवर झोपणे
= सुखकारक पलंग पर निद्रा करणे
= Sleeping on the comfy bed
.
७) शाकाहारी >शाकाहारिन् (पुं)--
=भाजीपाला खाणारा
= साग खानेवाला
= One who eats coarse vegetables
७) शाकाहारी >शाकाहारिन् (पुं)--
=भाजीपाला खाणारा
= साग खानेवाला
= One who eats coarse vegetables
८) शाल्योदनरुचि: >शाल्योदनरुचि (पुं,समास:)--
• शालीनाम् ओदनं, शाल्योदनम्।
• शाल्योदने रुचि: यस्य।
= सुगंधी साळीच्या तांदुळाचा भात खाणारा
= अच्छा सुग्रास भोजन करनेवाला
= Relishing the cooked rice made from the शालि variety (which is called the best variety rice)
९) कन्थाधारी >कन्थाधारिन् (पुं,समास:)--
• कन्थां धारयति इति।
=जाडी भरडी वस्त्रे नेसून/ वल्कले नेसणारा
= क्षुद्र वस्त्र धारण करनेवाला
= Wearing rags
१०) दिव्याम्बरधर: >दिव्याम्बरधर (पुं,समास:)--
• दिव्यम् अम्बरम्।
• दिव्याम्बराणि धारयति इति।
=महागाची भरजरी वस्त्रे नेसणारा
= महंगे वस्त्र पहननेवाला
= Wearing exquisite clothes
११) मनस्वी >मनस्विन् (पुं)--
=उच्च विचारसरणीचा
= मनस्वी
= High-minded/passionate
१२) कार्यार्थी >कार्यार्थिन् (पुं,समास:)--
• कार्याणि अर्थयते इति।
=कामसू व्यक्ती/ कार्य तत्पर व्यक्ती
= कार्यशील व्यक्ति
= Work-oriented person/devout worker
१३) न गणयति > गण् (१०प)--
=मोजत नाही
= गणना नही करता है
= (Doesn't) count
१४) सुखम् >सुख (नपुं)--
=सुख समाधान
= सुख
= Happiness
१५) दु:खम् >दु:ख(नपुं)--
=दुःख
= दुख
= Unhappiness
✓ प्रश्न--
१) कीदृशः मनस्वी अस्ति?
२) कः सुखं दुःखं च न गणयति?
३) मनस्वी कार्यार्थी क्वचित् कुत्र कुत्र शयनं करोति?
४) मनस्वीनः कार्यार्थीनः क्वचित् कस्मिन् रुचिः भवति?
५) मनस्वी कार्यार्थी क्वचित् कीदृशं वस्त्रं धारयति ?
✓ अन्वय--
(यस्य) क्वचित् भूमौ शय्या, क्वचित् अपि च पर्यङ्कशयनम्, (य:) क्वचित् शाकाहारी क्वचित् अपि च शाल्योदनरुचि:, (य:) क्वचित् कन्थाधारी क्वचित् अपि च दिव्याम्बरधर:
(स:) मनस्वी कार्यार्थी (पुरुष:) दु:खं सुखं च न गणयति।
✓ अर्थ--
१) मराठी अर्थ--
मनस्वी कार्यतत्पर मनुष्य कधी जमिनीवर झोपतो तर कधी पलंगावर सुखकारक शय्येवर झोपतो.कधी फक्त पालेभाजी खातो तर कधी सुगंधीत साळीच्या तांदळाचा भात खातो.कधी जाडी भरडी वस्त्रे (वल्कले) नेसतो तर कधी महाग भरजरी वस्त्रे परिधान करतो.अशाप्रकारे कार्यतत्पर मनुष्य स्वतः च्या सुख दुःखाचा विचार न करता सदैव लोक कल्याणाच्या कार्यात मग्न होतो.
२) संस्कृतार्थ:---
समर्पितस्यः कार्यकर्तुः स्वदुःखसुखं अगणयित्वा सर्वदा जनकल्याणकार्येषु नित्यं चिकीर्षा वर्तते। सः क्वचित् भूमौ शय्यां करोति क्वचित् पर्यङ्कशयनं करोति। सः क्वचित् शाकाहारं वा रूचिकरं शाल्योदनं आस्वादयति। क्वचित् वल्कलानि धरति वा क्वचिद् दिव्यं परिधानोत्तमम् धरति। एतादृशैः परिवर्तनैः कार्यतत्परः मनुष्यः कदापि कार्यनिर्वहणं न त्यजति | शिथिलतां न अवाप्नोति।
३) हिंदी अर्थ--
कभी भूमि पर सोना तो कभी सुखकारक पलंग पर, कभी रूखी सब्जी खानेवाला तो कभी सुग्रास भोजन करनेवाला, कभी क्षुद्र वस्त्र पहननेवाला तो कभी बेशकीमती वस्त्र-- ऐसा मनस्वी कार्यतत्पर व्यक्ति कार्य करते समय न सुख की ना दुख की गणना करनेवाला होता है।
४) English Meaning--
Now sleeping on the ground and then on a comfy bed, occasionally eating coarse vegetables and sometimes excellent dishes, occasionally wearing rags and sometimes exqusite clothes--thus a passionate and devout worker doesn't count his own happiness or sorrows while working.