नास्ति विद्यासमो बन्धु-
र्नास्ति विद्यासम: सुहृद्।
नास्ति विद्यासमं वित्तं
नास्ति विद्यासमं सुखम्।।
र्नास्ति विद्यासम: सुहृद्।
नास्ति विद्यासमं वित्तं
नास्ति विद्यासमं सुखम्।।
✓ पदच्छेद--
न, अस्ति, विद्यासम:, बन्धु:, न, अस्ति, विद्यासम: , सुहृद्, न, अस्ति विद्यासमम् , वित्तम् , न, अस्ति, विद्यासमम्, सुखम्।
✓ शब्दार्थ--
१) न (अ)--
= नाही
= नही
= Not
२) अस्ति >अस् (२प)--
=असते
=है
= Is
३) विद्यासम:, विद्यासमम् >विद्यासम (वि, पुं,नपुं, समास:)--
• विद्यया सम:/ समम्।
= विद्ये समान
=विद्या के समान
= Comparable to knowledge
४) बन्धु: > बन्धु (पुं)--
=नातेवाईक
=रिश्तेदार
= Relative
५) सुहृद् (पुं)--
=मित्र
=मित्र /दोस्त
= Friend
६) वित्तम् >वित्त (नपुं)--
=संपत्ती
=सम्पत्ती
= Wealth
७) सुखम् >सुख (नपुं)--
=सुख/ आनंद
=सुख/आनंद
= Happiness
✓ प्रश्न--
१) कीदृशः बन्धुः नास्ति?
२) कीदृशः सुहृद् नास्ति?
३) कीदृशं वित्तं नास्ति?
४) कीदृशं सुखं नास्ति?
✓ अन्वय--
विद्यासम: बन्धु: न अस्ति। विद्यासम: सुहृद् न अस्ति ।विद्यासमम् वित्तम् न अस्ति। विद्यासमं सुखं न अस्ति ।
✓ अर्थ--
१) मराठी अर्थ--
विद्येसारखे दुसरे नातेवाईक नाहीत. विद्ये सारखा मित्र नाही .विद्ये सारखी ( अन्य) संपत्ती नाही (आणि) विद्येसमान ( कोणतेही अन्य) सुख समाधान नाही.
२) संस्कृतार्थ:--
विद्यया तुल्य: बन्धु:, मित्रम्, धनम् अथवा अपरं सुखं न विद्यते। (विद्या एव सर्वोत्कृष्ट: बन्धु:, मित्रम्, धनं सुखं वा इति निश्चय:।)
३) हिंदी अर्थ--
विद्या के समान दूसरा रिश्तेदार नही है । विद्या के समान ( दूसरा ) मित्र नही है । विद्या के समान (अन्य कोई ) सम्पत्ती नही है । विद्या के समान (अन्य कुछ भी ) सुख नही है ।
४) English Meaning--
There is no relative comparable to knowledge. No friend , no wealth, and no happiness can compare with knowledge. (Thus knowledge is the best relative, the best friend, supreme wealth and happiness)