यस्यास्ति वित्तं स नर: कुलीन:
स पण्डित: स श्रुतवान् गुणज्ञ:।
स एव वक्ता स च दर्शनीय:
सर्वे गुणा: काञ्चनमाश्रयन्ते।।
स पण्डित: स श्रुतवान् गुणज्ञ:।
स एव वक्ता स च दर्शनीय:
सर्वे गुणा: काञ्चनमाश्रयन्ते।।
✓ पदच्छेद--
यस्य, अस्ति, वित्तम्, स:, नर:, कुलीन:, स:, पण्डित:, स:, श्रुतवान्, गुणज्ञ:, स:, एव, वक्ता, स:,च, दर्शनीय:, सर्वे, गुणा:, काञ्चनम्, आश्रयन्ते।
यस्य, अस्ति, वित्तम्, स:, नर:, कुलीन:, स:, पण्डित:, स:, श्रुतवान्, गुणज्ञ:, स:, एव, वक्ता, स:,च, दर्शनीय:, सर्वे, गुणा:, काञ्चनम्, आश्रयन्ते।
✓ शब्दार्थ--
१) यस्य >यद् (पुं)--
= ज्याचे ( ज्याच्याकडे)
= जिसके पास
= Whose
२) अस्ति >अस् (२प)--
= असते
= होता है
= Is
३) वित्तम् > वित्त (नपुं)--
= संपत्ती
= धन
= Wealth
४) स: >तद् (पुं)--
=तो
= वह
= He
५) नर: >नर (पुं)--
=मनुष्य
= मनुष्य
= Man
६) कुलीन: >कुलीन (वि, पुं)--
=कुलवंत
= कुलीन
= Of high-birth
७) पण्डित: >पण्डित (पुं)--
=विद्वान
= विद्वान
= Knowledgeable
८) श्रुतवान् >श्रुतवत् (वि, पुं)--
= उच्च शिक्षित/ विद्या विभूषित
= विद्यावान
= Learned/well-read
९) गुणज्ञ: >गुणज्ञ (वि, पुं,समास:)--
• गुणान् जानाति इति।
=गुणग्राहक
= गुणों की पहचान करनेवाला
= Appreciator of good qualities.
१०) वक्ता >वक्तृ (पुं)--
=वक्ता
= वक्ता
= Orator
११) च (अ)--
=आणि
= और
= And
१२) दर्शनीय: >दर्शनीय (वि, पुं)--
=सुस्वरूप
= दिखने में सुंदर
= Handsome
१३) सर्वे > सर्व (पुं)--
=सर्व
= सब
= All
१४) गुणा: > गुण (पुं)--
=गुण
= गुण
= Good qualities
१५) काञ्चनम् >काञ्चन (नपुं)--
=सोने/ संपत्ती
= सोने के (सम्पत्ति के)
= Gold/money
१६) आश्रयन्ते > आ+श्रि (१आ)--
=अवलंबून असणे
= आश्रय से रहते है।
= Take refuge in/ are dependent on
✓ प्रश्न--
१) सर्वे गुणाः कम् आश्रयन्ते?
२) कः कुलीनः मन्यते?
३) कः पण्डितः मन्यते?
४) कः श्रुतवान् गुणज्ञः च मन्यते?
५) कः वक्ता दर्शनीयः च मन्यते?
✓ अन्वय--
सर्वे गुणा: काञ्चनम् आश्रयन्ते। यस्य वित्तम् अस्ति स: नर: कुलीन:, स: पण्डित:, स: श्रुतवान्, स: गुणज्ञ:, स: एव वक्ता दर्शनीय: च।
✓ अर्थ--
१) मराठी अर्थ–
जी व्यक्ती धनसंपन्न असते ती कुलशीलवान, विद्वान्, विद्याविभूषित, गुणग्राहक, उत्तम वक्ता आणि सुस्वरूप ही समजली जाते.अशा प्रकारे सर्व गुण हे तुमच्या संपत्तीवर अवलंबून असतात अर्थात सर्व गुण हे व्यक्तीच्या संपत्ती वर ठरत असतात.
२) संस्कृतार्थ:--
यः धनिकः अस्ति जनाः तमेव कुलीनः , पण्डितः, विद्यावान् , गुणवान्, वक्ता, प्रतिष्ठितः, रूपवान् मन्यन्ते। सत्यमेव उक्तम् सर्वे गुणाः सम्पत्तिम् अनुसरन्ति।
३) हिंदी अर्थ–
जिसके पास धन है वही कुलीन होता है, वही ज्ञानी, शास्त्रवेत्ता और गुणग्राहक समझा जाता है। वही उत्तम वक्ता होता है और दिखने मे भी सभी को सुंदर लगता है। इस प्रकार सभी गुण धन के ही आश्रित होते है।
४) English Meaning--
The man who possesses wealth is thought of as one of high-brith, he is knowledgeable, he alone is learned, and one who knows the value of good qualities. He alone is an excellent orator and handsome. Thus all good qualities are dependent on the money you have.