७७) अभिवादनशीलस्य---।।

अभिवादनशीलस्य
नित्यं वृद्धोपसेविन:।
चत्वारि तस्य वर्धन्ते
आयुर्विद्या यशो बलम्।।

पदच्छेद-- 
अभिवादनशीलस्य, नित्यम्, वृद्धोपसेविन:, चत्वारि, तस्य, वर्धन्ते, आयु:, विद्या, यश:, बलम्।

शब्दार्थ-- 

१) अभिवादशीलस्य >आभिवादनशील (पुं, समास:)--
• अभिवादनं शीलं यस्य स:, तस्य।
= विनयशील 
= अभिवादन/सम्मान करनेवाले 
= He who is accustomed to salute the elders (i.e. humble)

२) नित्यम् (अ)--
=सदैव 
=हमेशा
= Always

३) वृद्धोपसेविन: >वृद्धोपसेविन् (पुं,समास:)--
• वृद्धान् उपसेवते इति, तस्य।
= वृध्दांची सेवा करणारा 
=वृद्ध जनों की सेवा में तत्पर
= One who serves the elders

४) चत्वारि >चतुर् (नपुं)--
=चार 
=चार
= Four

५) तस्य >तद् (पुं)--
=त्याचे
=उसके
= His

६) वर्धन्ते >वृध् (१आ)--
=वाढते/ वृध्दिंगत होते 
=बढ़ते है ।
= Grow

७) आयु: >आयुस् (नपुं)--
=आयुष्य 
=आयुष्य/जीवनमान
= Life

८) विद्या (स्त्री)--
= विद्या 
=विद्या
= Knowledge

९) यश: >यशस् (नपुं)--
=कीर्ती 
=कीर्ती
= Fame

१०) बलम् >बल (नपुं)--
=शक्ती
=बल/शक्ती/ताकद
= Strength

प्रश्न--
१) कस्य चत्वारि वर्धन्ते?
२) कानि चत्वारि वर्धन्ते?

अन्वय--
अभिवादनशीलस्य, वृद्धोपसेविन: , तस्य आयु:, विद्या, यश:, बलम् (इति)चत्वारि नित्यम् वर्धन्ते।

अर्थ--

१) मराठी अर्थ--
जो विनयशील व वृद्धांच्या सेवेत तत्पर असतो त्याचे आयुष्य,विद्या,यश आणि शक्ती वाढते.

२) संस्कृतार्थ:--
यः नम्रः तथा वृद्धानां सेवायां तत्परः अस्ति तस्य चतुर्ण्णाम् वर्धनं भवति। तस्य आयुः दीर्घः भवति। तस्य विद्या वर्धते। तस्य यशः तथा बलं वर्धते।

३) हिंदी अर्थ--
जो अभिवादनशील या सम्मान करनेवाले सुशील/विनम्र होते है और वृद्ध जनों की सेवा में तत्पर होते है उनके आयुष्य,विद्या , बल और कीर्ती यह चारों बढ़ते है ।

४) English Meaning-- 
He who is accustomed to saluting the elders (and is therefore humble); he who always serves the elders, of such 
a person four things increase-- his life, knowledge, fame and stength.