ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
ज्ञानस्योपशम: श्रुतस्य विनयो वित्तस्य पात्रे व्यय:।
अक्रोधस्तपसां क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्।।
ज्ञानस्योपशम: श्रुतस्य विनयो वित्तस्य पात्रे व्यय:।
अक्रोधस्तपसां क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम्।।
✓ पदच्छेद--
ऐश्वर्यस्य, विभूषणम्, सुजनता, शौर्यस्य , वाक्संयम:, ज्ञानस्य, उपशम:, श्रुतस्य विनय:, वित्तस्य, पात्रे, व्यय:, अक्रोध:, तपसाम्, क्षमा, प्रभवितु:, धर्मस्य, निर्व्याजता, सर्वेषाम्, अपि, सर्वकारणम्, इदम्, शीलम्, परम्, भूषणम्।।
ऐश्वर्यस्य, विभूषणम्, सुजनता, शौर्यस्य , वाक्संयम:, ज्ञानस्य, उपशम:, श्रुतस्य विनय:, वित्तस्य, पात्रे, व्यय:, अक्रोध:, तपसाम्, क्षमा, प्रभवितु:, धर्मस्य, निर्व्याजता, सर्वेषाम्, अपि, सर्वकारणम्, इदम्, शीलम्, परम्, भूषणम्।।
✓ शब्दार्थ--
१) ऐश्वर्यस्य >ऐश्वर्य (नपुं)---
= ऐश्वर्याचा
= ऐश्वर्य का
= Of wealth/prosperity
२) विभूषणम् >विभूषण (नपुं)--
=दागिना
= अलंकार
= Ornament
३) सुजनता (स्त्री)--
= सौजन्य
= सौजन्य
= Righteousness
४) शौर्यस्य >शौर्य (नपुं)--
=शौर्याचा
= शौर्य का
= Bravery/valour
५) वाक्संयम: > वाक्संयम (पुं, समास:)--
• वाच: संयम:।
=संयमित बोलणे
= वाणी का संयम
= Control of speech
६) ज्ञानस्य >ज्ञान (नपुं)--
=ज्ञानाचा
= ज्ञान का
= Of knowledge
७) उपशम: >उपशम (पुं)--
=वासनां वर नियंत्रण
= वासनाओं का शमन
= Pacification of the sensesory cravings
८) श्रुतस्य >श्रुत (नपुं)--
= शास्त्रीय ज्ञान
= शास्त्रज्ञान का
= Of scriptural erudition
९) विनय: >विनय (पुं)--
=विनयशीलता
= नम्रता
= Humility
१०) वित्तस्य >वित्त(नपुं)--
=संपत्तीचा
= धन का
= Of money
११) पात्रे >पात्र (नपुं)--
=दानास योग्य असलेला
= पात्र मनुष्य के विषय में
= Among the eligible
१२) व्यय: >व्यय (पुं)--
=खर्च
= खर्च
= Expediture
१३) अक्रोध: >अक्रोध (पुं)--
=शांत स्वभाव
= क्रोध का अभाव
= Absence of anger
१४) तपसाम् >तपस् (नपुं)--
=तपश्चर्येचा
= तप का
= Of penances
१५) क्षमा (स्त्री)--
=क्षमाशीलता
= क्षमा
= Fortitude
१६) प्रभवितु: >प्रभवितृ (पुं)--
=सामर्थ्यवान मनुष्याचा
= सामर्थ्यशील मनुष्य का
= Of the strong
१७) धर्मस्य >धर्म (पुं)--
=धर्माचा
= धर्म का
= Of right conduct
१८) निर्व्याजता (स्त्री)--
=निष्कपटता/ सरळ स्वभाव
= सरलता/कपट का अभाव
= Guilelessness
१९) सर्वेषाम् >सर्व (पुं)--
=सर्वांचा
= सब का
= Of all
२०) अपि (अ)--
=सुध्दा
= भी
= Also/even
२१) सर्वकारणम् >सर्वकारण (नपुं,समास:)---
• सर्वस्य कारणम्।
= मूळ कारण
= मूल कारण
= The cause of all /the primal cause
२१)इदम् (नपुं)--
=हे
= यह
= This
२२) शीलम् >शील (नपुं)--
=चारित्र्य
= चारित्र्य
= Blemishless/untainted character
२३) परम् >पर (वग, नपुं)--
=सर्व श्रेष्ठ
= सर्वश्रेष्ठ
= The most excellent
२४) भूषणम् >भूषण (नपुं)--
=दागिना
= अलंकार
= Ornament.
✓ प्रश्न--
१) कस्य भूषणं सुजनता अस्ति?
२ ) शौर्यस्य भूषणं किम्?
३) ज्ञानस्य भूषणं किम्?
४) कस्य भूषणं विनयः अस्ति?
५) वित्तस्य भूषणं किम्?
६) तपसां भूषणं किम्?
७) कस्य भूषणं क्षमा अस्ति?
८) धर्मस्य विभूषणं किं अस्ति?
९) परं भूषणं किम् अस्ति?
✓ अन्वय--
ऐश्वर्यस्य विभूषणं सुजनता (अस्ति)। शौर्यस्य वाक्संयम:, ज्ञानस्य उपशम:, श्रुतस्य विनय:, वित्तस्य पात्रे व्यय:, तपसाम् अक्रोध:, प्रभवितु: क्षमा, धर्मस्य निर्व्याजता (इति आभूषणम् अस्ति)। (किन्तु) सर्वेषाम् अपि इदं सर्वकारणं शीलं परं भूषणम् (अस्ति)।
✓ अर्थ--
१) मराठी अर्थ–
सौजन्यशीलता हा ऐश्वर्याचा दागिना आहे.शौर्याचा अलंकार संयमित बोलणे हा आहे.ज्ञानाचा अलंकार वासनांवर नियंत्रण ठेवता येणे हा होय.शास्त्रीय ज्ञानाचा अलंकार विनयशीलता आणि संपत्तीचा दागिना सत्पात्री दान करणे हा आहे.तपश्चर्येचा अलंकार स्वभावाचा शांतपणा आहे तर सामर्थ्यवान मनुष्याचा अलंकार क्षमाशीलता होय.धर्माचा अलंकार निष्कपटता आहे परंतु या सर्व गुणांपेक्षा श्रेष्ठ व सर्व गुणांचे मूळ कारण असलेला गुण म्हणजे निष्कलंक चारित्र्य हेच सर्वश्रेष्ठ आभूषण होय.
२) संस्कृतार्थ:--
ऐश्वर्यस्य विभूषणं सौजन्यम् अस्ति। शौर्यस्य विभूषणं वाचि संयम:, ज्ञानस्य विभूषणं शान्तिः, ज्ञानस्य विभूषणम् विनय:, वित्तस्य विभूषणम् पात्रे दानं, तपसां विभूषणम् अक्रोध:, समर्थानां विभूषणं क्षमा, धर्मस्य विभूषणं सरलता अस्ति। किन्तु सर्वेषां गुणानाम् अपि इदं सर्वकारणं शीलं परमभूषणम् अस्ति।
३) हिंदी अर्थ–
सौजन्य ऐश्वर्य का अलंकार है, शौर्य का अलंकार वाणी का संयम, ज्ञान का वासनाओं का शमन, शास्त्रज्ञान का नम्रता, धन का पात्र मनुष्य पर खर्च , तप का अक्रोध, सामर्थ्यशील मनुष्य का क्षमा, धर्म का कपट का अभाव अलंकार होता है। लेकिन इन सभी का भी जो मूल कारण है वह चारित्र्य मनुष्य का सर्वश्रेष्ठ अलंकार है।
४) English Meaning--
Righteousness is the ornament of prosperity, controlled speech is that of valour, the pacification of the senses is the ornament of knowledge, humility is that of scriptural erudition, expenditure for the eligible person is that of wealth, absense of anger is that of penances, fortitude is that of the strong, guilelessness is that of the dutiful conduct. But the blemishless character which is the root cause of all these is the most excellent oranament.