आयु: कर्म च वित्तं च
विद्या निधनमेव च।
पञ्चैतानि सृज्यन्ते
गर्भस्थस्यैव देहिन:।।
विद्या निधनमेव च।
पञ्चैतानि सृज्यन्ते
गर्भस्थस्यैव देहिन:।।
✓ पदच्छेद--
आयु:, कर्म, च वित्तम्, च, विद्या, निधनम्, एव,च, पञ्च, एतानि, सृज्यन्ते, गर्भस्थस्य, एव, देहिन:।
✓ शब्दार्थ--
१) आयु: >आयुस् (नपुं)--
= जीवन मर्यादा
= आयुष्य/जीवन की काल सीमा
= Life span
२) कर्म >कर्मन् (नपुं)--
=कर्तव्य कर्म
=कर्म/करम/कर्तव्य
= Duty/work
३) च (अ)--
= आणि
=और
= And
४) वित्तम् >वित्त (नपुं)--
=सांपत्तिक स्थिती
=धन की आय
= Wealth
५) विद्या (स्त्री)--
=विद्या
=विद्या
= Knowledge
६) निधनम् >निधन (पुं)--
=मृत्यू
=मृत्यू
= Death
७) एव (अ)--
=निश्चित
=निश्चित
= Certainly
८) पञ्च >पञ्चन् (वि)--
= पाच
=पाँच
= Five
९) एतानि >एतद् (नपुं)--
=ह्या
=यह
= These
१०) सृज्यन्ते >सृज् (६प, कर्मणि)--
= निर्माण केले जातात
= निर्माण किये जाते है
= Are created
११) गर्भस्थस्य >गर्भस्थ (पुं,समास:)--
• गर्भे तिष्ठति इति ,तस्य।
=आईच्या गर्भाशयातील गर्भ
=गर्भाशय में गर्भ के रहते हुए
= Residing in the womb
१२) एव (अ)--
= नक्कीच
= ही
= Certainly
१३) देहिन: >देहिन् (पुं)--
= जीवाचे
= जीव के
= The embodied soul.
✓ प्रश्न --
१) कानि पञ्च निश्चितानि?
२) तानि पञ्च कदा सृज्यन्ते?
✓ अन्वय--
आयु: कर्म च,वित्तं विद्या च, निधनन च एतानि पञ्च गर्भस्थस्य देहिन: एव सृज्यन्ते ।
✓ अर्थ--
१) मराठी अर्थ–
आईच्या गर्भात असतानाच गर्भाची जीवन- मर्यादा,त्याची कर्तव्ये, सांपत्तिक स्थिती , विद्या आणि मृत्यू या पाच गोष्टी निश्चितपणे ठरत असतात.
२) संस्कृतार्थ:--
मातुः गर्भे विद्यमानस्य जीवस्य आयुषः अवधिः ,कर्तव्यानि निहितकर्माणि , धनप्राप्तिः, मृत्योः क्षणम् एतानि पञ्चानि निर्धारितानि जायन्ते।
३) हिंदी अर्थ–
जीवन की काल सीमा , उसके विहित कर्म , उसकी सांपत्तिक स्थिती , विद्या और मृत्यु यह पाँच बाते माता के गर्भाशय में गर्भ के रहते हुए ही निश्चित हो जाते है ।
४) English Meaning--
Of the embodied soul, five things are certainly created while he is residing in the mother's womb-- his life span , his duties, wealth, knowledge and his death also.