३८) अन्यायोपार्जितं-------।।

अन्यायोपार्जितं द्रव्यं 
दश वर्षाणि तिष्ठति।
प्राप्ते चैकादशे वर्षे 
समूलं तद्विनश्यति।।

पदच्छेद-- 
अन्यायोपार्जितम्, वित्तम्, दश, वर्षाणि, तिष्ठति, प्राप्ते , च ,एकादशे, वर्षे, समूलम्, तत्, विनश्यति।

शब्दार्थ-- 

१) अन्यायोपार्जितम् > अन्यायोपार्जित (नपुं, वि.,समास:)
• अन्यायेन उपार्जितम्।
= अन्यायाने कमावलेले  
= अन्याय से कमाया हुआ
= Attained by unsrupulous means

२) वित्तम् >वित्त (नपुं)--
=धन
= धन 
= Money/wealth

३) दश > दशन् (वि)--
= दहा 
= दस
= Ten

४) वर्षाणि > वर्ष (नपुं)--
= वर्षापर्यंत 
= वर्षपर्यंत
= Years

५) तिष्ठति >स्था (१प)--
= टिकते
= रहता है । 
= Remains

६) प्राप्ते >प्राप्त (वि)--
= सुरु झाल्यावर 
= शुरु होते ही/प्राप्त होते ही
= When reached

७) एकादशे > एकादश (वि)--
= अकरावे 
= ग्यारहवा
= The eleventh

८) समूलम् > समूल (नपुं, समास:)--
• मूलेन सह यथा स्यात्।
= मुळासह 
= मूलसहित संपूर्ण
= From the roots/completely

९) तत् > तद् (नपुं)-
= ते
= वह
= It

१०) विनश्यति > वि+ नश् (४प)--
= नष्ट होते 
=नष्ट होता है ।
= Is destroyed

प्रश्न--
१)अन्यायोपार्जितम् वित्तम् कति वर्षाणि तिष्ठति ?
२)अन्यायोपार्जितम् वित्तम् कदा समूलम् विनश्यति?

अन्वय--
अन्यायोपार्जितम् वित्तम् दश वर्षाणि (एव) तिष्ठति। एकादशे वर्षे प्राप्ते च तत् समूलम् विनश्यति।

अर्थ--

१) मराठी अर्थ-- 
अन्यायाने मिळवलेले धन दहा वर्षापर्यंत टिकते आणि अकरावे वर्ष सुरू झाले की मुळापासून नष्ट होते.

२) संस्कृतार्थ:-- 
य: नीतिविरुद्ध: अन्याय्य: मार्ग: तेन गत्वा अर्जितं धनं दश वर्षाणि यावत् मनुष्यस्य समीपे तिष्ठति। तथापि यदा एकादशं वर्षम् आरभते तदा तत् समूलं नाशं प्राप्नोति।

३) हिंदी अर्थ--
अनीती से कमाया हुआ धन या वित्त दस साल तक रहता है । ग्यारहवा साल शुरु होते ही या ग्यारहवे साल में वह समूल संपूर्णतया नष्ट हो जाता है ।

४) English Meaning-- 
The wealth acquired by unscrupulous means remains for ten years. But when it reaches the eleventh year, it gets completely destroyed.