नारिकेलसमाकारा
दृश्यन्तेऽपि हि सज्जना:।
अन्ये बदरिकाकारा
बहिरेव मनोहरा:।।
दृश्यन्तेऽपि हि सज्जना:।
अन्ये बदरिकाकारा
बहिरेव मनोहरा:।।
✓ पदच्छेद–
नारिकेलसमाकारा:, दृश्यन्ते, अपि,हि सज्जना:, अन्ये, बदरिकाकारा:, बहि:,एव, मनोहरा:।
नारिकेलसमाकारा:, दृश्यन्ते, अपि,हि सज्जना:, अन्ये, बदरिकाकारा:, बहि:,एव, मनोहरा:।
✓ शब्दार्थ--
१) नारिकेलसमाकारा: > नारिकेलसमाकार (पुं,समास:)--
• नारिकेलेन सम:, नारिकेलसम:।
• नारिकेलसम: आकार: येषां ते।
= नारळाप्रमाणे आकाराचे
= नारियल के समान आकार के ( बाहर से कठीन और अंदर से मुलायम )
= Those whose appearance is like the coconut
२) दृश्यन्ते > दृश् (१प, कर्मणि)--
= दिसतात
=दिखते है ।
= Are seen/appear
३) अपि (अ)--
= सुद्धा
= यहां तक की
= Even
४) हि (अ)--
= खरेच
=निःसन्देह/बेशक
= Verily
५) सज्जना: >सज्जन (पुं)--
=सज्जन लोक
= सज्जन लोग
= The righteous people
६) अन्ये >अन्य (पुं)--
= इतर
= अन्य
= Others
७) बदरिकाकारा: >बदरिकाकार (पुं,समास:)--
• बदरिकस्य आकार: इव आकार: येषां ते।
= बोराप्रमाणे आकाराचे
=बेर के आकार के ( बाहर से मुलायम और अंदर से कठीन )
= Having a shape like a berry.
८) बहि: (अ)--
= बाहेरुन
= बाहर से
= From the outside
९) एव (अ)--
= खरोखर
=ही
= Verily
१०) मनोहरा: >मनोहर (वि.पुं)--
= मनोहर
=मनोहारी/दिखने में आकर्षक , लुभावने
= Attractive
✓ प्रश्न--
१) सज्जनाः कीदृशाः दृश्यन्ते।
२) बहिः एव मनोहराः के दृश्यन्ते।
३) अन्ये जनाः कीदृशाः दृश्यन्ते।
✓ अन्वय--
अपि हि सज्जना: नारिकेलसमाकारा: दृश्यन्ते | अन्ये बदरिकाकारा: बहि: एव मनोहरा: ।
✓ अर्थ--
१) मराठी अर्थ--
सज्जन लोक नारळाप्रमाणे (बाहेरून कठीण आणि आतमध्ये मृदु) दिसतात तर इतर लोक बोराप्रमाणे (बाहेरुन मृदु आणि आत कठीण) बाहेरुन मनोहर असतात.
२) संस्कृतार्थ:--
यथा नारिकेलस्य बाह्यावरणं कठोरं किन्तु मधुरजलयुक्तः अन्तः तु मृदुः अस्ति तथैव सज्जनानां व्यक्तित्वं बाह्यतः कठोरं किन्तु अन्तःकरणं करुणायुक्तम् अस्ति। द्वेषक्रोधयुक्ताः दुर्जनाः तु बदरीककारा इव सन्ति । ये बाह्यतः तु आकर्षकाः मृदवः किन्तु अन्ते तु निर्दयाः कठोराः एव वर्तन्ते।
३) हिंदी अर्थ–
सज्जन लोग नारियल के समान (बाहर से कठीन और अंदर से मुलायम) निःसंदेह दिखते है जहां (कुछ) अन्य लोग बेर के समान केवल बाहरसे ही से ही मनोहर होते है ।
४) English Meaning–
Even if the righteous people verily seem like an (unattractive) coconut
from the outside, all others are just like the berry, only attractive outwardly