८९) गुणा गुणज्ञेषु----।।

गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषा:।
आस्वाद्यतोया: प्रभवन्ति नद्य:
समुद्रमासाद्य भवन्त्यपेया:।।

पदच्छेद-- 
गुणा:, गुणज्ञेषु, गुणा:,भवन्ति, ते, निर्गुणम्,प्राप्य, भवन्ति, दोषा:, आस्वाद्यतोया:, प्रभवन्ति, नद्य:, समुद्रम् , आसाद्य, भवन्ति, अपेया:।

शब्दार्थ-- 

१) गुणा: > गुण (पुं)---
= सद्गुण
= गुण
= Good qualities

२) गुणज्ञेषु >गुणज्ञ (पुं, समास:)--
• गुणान् जानन्ति इति, तेषु।
=गुणांची पारख करणारे 
= गुणों की पहचान रखनेवाले।
= Those who appreciate the good qualities.

३) भवन्ति > भू (१प)--
= होतात 
= होते है/बन जातें है।
= become/turn into

४) ते >तद् (पुं)--
=ते
= वे
= Those

५) निर्गुणम् >निर्गुण (नपुं, समास:)--
• निर्गता: गुणा: यस्मात्, तम्।
=गुणहीन मनुष्याला 
= गुणहीन मनुष्य को
= Those who are devoid of good qualities

६) प्राप्य >प्र+आप् (५प)--
=मिळवून 
= प्राप्त करके
= After attaining

७) दोषा: >दोष (पुं)--
= दुर्गुण 
= दोष
= Bad qualities

८) आस्वाद्यतोया: > आस्वाद्यतोय (समास:, स्त्रियाम्)--
• आस्वाद्यं तोयं यासाम्।
= गोड पाणी 
= मधुर जल से युक्त
= Having sweet water.

९) प्रभवन्ति >प्र+भू (१प)--
=होते 
= उत्पन्न होती है।
= Are born

१०) समुद्रम् >समुद्र (पु)--
=समुद्रात 
= समुद्र को
= Ocean

११) आसाद्य >आ+ सद् (१प)--
=मिसळ्यावर
= प्राप्त करके/पहुंचकर
= After attaining/reaching

१२) अपेया: >अपेय (वि, स्त्री, समास:)--
• न पेया:।
=पिण्यास अयोग्य 
= ना पीनेलायक
= Unworthy for  drinking. 

प्रश्न--
१) गुणाः केषु गुणाः भवन्ति?
२) गुणाः दोषाः कदा भवन्ति?
३) कीदृश्यः नद्यः प्रभवन्ति?
४) नद्यः कदा अपेयाः भवन्ति?

अन्वय-- 
गुणा: गुणज्ञेषु गुणा: भवन्ति। (तथापि) ते निर्गुणं प्राप्य दोषा: भवन्ति। (यथा) नद्य: आस्वाद्यतोया: प्रभवन्ति (तथापि ता:) समुद्रम् आसाद्य अपेया: भवन्ति।

अर्थ--

१) मराठी अर्थ–
सद्गुण हे जो पर्यंत गुणी माणसाकडे असतात तो पर्यंत ते गुण म्हणून ओळखले जातात.दुर्गुणी मनुष्याच्या संगतीत गुण ही दोष बनतात.जसे नद्यांमध्ये वाहणारे पाणी चवीला अत्यंत गोड असते पण ती समुद्राला मिळताच तेच गोड पाणी खारट होते.

२) संस्कृतार्थ:--
सज्जनस्य गुणाः एव गुणाः इति ज्ञायन्ते। ते एव गुणाः यदि दुर्जनस्य सन्ति चेत् दोषाः भवन्ति। यदा नदी प्रभवति तदा मधुरजलयुक्ता अस्ति किन्तु समुद्रं सङ्गम्य अपेया क्षारयुक्ता च भवति।

३) हिंदी अर्थ-- 
गुण जब गुणों की कद्र करनेवालों के पास होतें है तबतक वे गुण ही रहते है लेकिन गुणहीन मनुष्यों के पास जाकर वे दोष ही बन जाते है। देखिए-- नदीयाँ पैदा होने के समय मीठे पानीवाली होती है लेकिन समुद्र को पाकर के वे  पीनेलायक नही रहती।

४) English Meaning-- 
Good qualities remain good qualities so long as they are with people who know their value. But they turn into bad qualities when they go near the people devoid of goodness. See-- the rivers are born with sweet water but when they merge into the ocean, they(their waters) become unworthy for drinking.