५९) छायामन्यस्य----।।

छायामन्यस्य कुर्वन्ति
तिष्ठन्ति स्वयमातपे।
फलान्यपि परार्थाय
वृक्षा: सत्पुरुषा इव।।

पदच्छेद-- 
छायाम् , अन्यस्य, कुर्वन्ति, तिष्ठन्ति, स्वयम्, आतपे, फलानि, अपि, परार्थाय, वृक्षा:, सत्पुरुषा:,इव।

शब्दार्थ-- 

१) छायाम् >छाया (स्त्री)--
= सावली
= छाँव/छाया
= Shade

२) अन्यस्य >अन्य (पुं)--
= दुसऱ्यांकरिता
=दूसरों के लिये 
= For others

३) कुर्वन्ति >कृ (८प)--
= (निर्माण) करतात
=करते है (देते है )
= Make

४) तिष्ठन्ति >स्था (१प)--
= उभे राहतात
=खडे रहते है
= Stand

५) स्वयम् (अ)--
= स्वत:
=खुद
= Themselves

६) आतपे >आतप (पुं)--
= उन्हात
=धूप में
= In the sun

७) फलानि >फल (नपुं)--
=फळे
=फल
= Fruits

८) अपि (अ)--
= सुद्धा
=भी
= Also

९) परार्थाय >परार्थ (पुं, समास:)--
• परेभ्य: इति परार्थ:, तस्मै।
= दुसऱ्यांसाठी
=दूसरों के लिये
= For others

१०) वृक्षा: >वृक्ष (पुं)--
= वृक्ष
= वृक्ष
= Trees

११) सत्पुरुषा: >सत्पुरुष (पुं)--
= सज्जन
=सज्जन/सत्पुरुष
= The righteous

१२) इव (अ)--
= प्रमाणे
= समान
= Like

प्रश्न--
१) वृक्षाः कुत्र तिष्ठन्ति?
२) वृक्षाः फलानि किमर्थं यच्छन्ति?
३) वृक्षाः काम् अन्यस्य कुर्वन्ति?
४) वृक्षसत्पुरुषयोः किं साधर्म्यम्?

अन्वय--
 वृक्षा स्वयम् आतपे तिष्ठन्ति (किन्तु) छायाम् अन्यस्य कुर्वन्ति। (तेषां) फलानि अपि परार्थाय (भवन्ति।
 (वृक्षा:) सत्पुरुषा: इव (सन्ति)।

अर्थ--

१) मराठी अर्थ-- 
स्वत: उन्हात उभे राहून इतरांसाठी सावली देतात, त्यांची फळेही इतरांसाठीच असतात.असे हे वृक्ष सत्पुरुषांप्रमाणेच आहेत.

२) संस्कृतार्थ:-- 
स्वयं प्रकाशे तपमाना: सन्त: वृक्षा: अनेभ्य: छायां फ़लानि च यच्छन्तिl एवं एते वृक्षा: सज्जनपुरुषा: इव सन्ति।

३) हिंदी अर्थ–
वृक्ष खुद धूप में खडे रहकर दूसरों के लिये छाँव देते है । उनके फल भी दूसरों के लिये ही होते है । सचमुच वृक्ष सत्पुरुषों के समान होते है ।

४) English Meaning-- 
They themselves stand in the harsh sun and make cool shade for others.Their fruits are also for the enjoyment of others. So the trees are just like the righteous people.