प्राप्ते भये परित्राणं
प्रीतिविश्रम्भभाजनम्।
केन रत्नमिदं सृष्टं
मित्रमित्यक्षरद्वयम्।।
प्रीतिविश्रम्भभाजनम्।
केन रत्नमिदं सृष्टं
मित्रमित्यक्षरद्वयम्।।
✓ पदच्छेद–
प्राप्ते, भये, परित्राणम्, प्रीतिविश्रम्भभाजनम्, केन, रत्नम्, इदम्, सृष्टम्, मित्रम्, इति, अक्षरद्वयम्।
प्राप्ते, भये, परित्राणम्, प्रीतिविश्रम्भभाजनम्, केन, रत्नम्, इदम्, सृष्टम्, मित्रम्, इति, अक्षरद्वयम्।
✓ शब्दार्थ--
१) प्राप्ते >प्राप्त (वि, नपुं).--
= प्राप्त झाल्यावर
= निर्माण होने के बाद
= incurred/confronted with
२) भये >भय (नपुं)--
= भीती
=भय
= The cause of fear
३) परित्राणम् >परित्राण (नपुं)--
= रक्षण करणारा
= रक्षण करनेवाला
= The saviour/redeemer
४) प्रीतिविश्रम्भभाजनम् >प्रीतिविश्रम्भभाजन (नपुं,समास:)--
• प्रीति: च विश्रम्भ: च प्रीतिविश्रम्भौ।
• प्रीतिविश्रम्भयो: भाजनम्।
= स्नेह आणि विश्रांतीचे स्थान
=स्नेह (प्यार) और श्रद्धा ( विश्वास का ) स्थान
= The receptacle of love and faith
५) केन >किम् (पुं)--
= कोणी
=कोई भी
= By whom
६) रत्नम् >रत्न (नपुं)--
= रत्न
=रत्न
= Gem
७) इदम् (नपुं)--
= हे
=यह
= This
८) सृष्टम् >सृष्ट (वि,नपुं)--
= तयार केले
=तैय्यार किया होगा ?
= Was created
९) मित्रम् >मित्र (नपुं)--
= मित्र
=मित्र
= Friend
१०) इति (अ)--
= असे
=ऐसे
= This
११) अक्षरद्वयम् >अक्षरद्वय (नपुं, समास:)--
• द्वे अक्षरे यस्मिन् तत्।
= दोन अक्षरी
=दो अक्षरवाला
= Two lettered
✓ प्रश्न--
१) मित्रशब्दे कति अक्षराणि?
२) कवि: मित्रस्य तुलनां केन सह करोति?
३) मित्रं कस्य आश्रयस्थानम् अस्ति।
४) मित्रं कदा त्रायते?
✓ अन्वय--
प्राप्ते भये परित्राणम्, प्रीतिविश्रम्भभाजनम् , इदं मित्रम् इति अक्षरद्वयं रत्नं केन सृष्टम् ?
✓ अर्थ--
१) मराठी अर्थ--
भिती निर्माण झाल्यावर रक्षण करणारे, स्नेह आणि विश्रांतीचे स्थान असलेले, दोन अक्षरी मित्र नावाचे रत्न कोणी बरे निर्माण केले?
२) संस्कृतार्थ:--
यदा भयं प्राप्यते तदा एष: अस्मान् त्रायते। एष: स्नेहस्य विश्वासस्य च आश्रय: भवति। एतादृशं 'मित्र'मिति अक्षरद्वयात्मकं रत्नं केन सृष्टम्? (मित्रम् तस्य गुणानां कारणात् रत्नम् इव बहुमूल्यवत् भाति। एतत् मूल्यवत् रत्नं केन निर्मितमिति कवे: आश्चर्यप्रतीति:)
३) हिंदी अर्थ–
भय निर्माण होने के बाद , स्नेह (प्यार ) और श्रद्धा ( विश्वास ) का स्थान , दो अक्षरवाला मित्र नाम का रत्न किसने निर्माण किया होगा ?
४) English Meaning–
He who is the saviour when there is a cause of fear, who is the receptacle of love and faith , who did create that gem having two letters called मित्र (friend?)