६७) सङ्ग: सर्वात्मना ------।।

सङ्ग: सर्वात्मना त्याज्य:
स चेत्त्यक्तुं न शक्यते।
स सद्भि: सह कर्तव्य:
सन्त: सङ्गस्य भेषजम्।।

पदच्छेद--
सङ्ग:, सर्वात्मना, त्याज्य:, स चेत्, त्यक्तुम्, न, शक्यते, स:,सद्भि:, सह, कर्तव्य:, सन्त:, सङ्गस्य,भेषजम्।

शब्दार्थ--

१) सङ्ग:>सङ्ग (पुं)--
= आसक्ती/सहवास
= आसक्ती/संगत
= Attachment/living together

२) सर्वात्मना >सर्वात्मन् (पुं,समास:)--
• सर्व: आत्मा, तेन । (आत्मा= यत्न:)
= पूर्णपणे, सर्वप्रकारे
=पूर्णतः/ सब प्रकार से
= By all means/at all costs

३) त्याज्य: >त्याज्य (वि, पुं)--
= टाकून दिला पाहिजे
=त्यागना चाहिये ।
= Should be given up

४) स: >तद् (पुं)--
=तो
=वह
= It

५) चेत् (अ)--
= जर
=अगर
= If

६) त्यक्तुम् (अ)--
= त्यागणे
=त्यागना 
= For giving up

८) न शक्यते >शक् (५प)--
= शक्य नाही
=शक्य नही है ।
= Is not possible

९) सद्भि: >सत् (पुं)--
= सज्जनांसह
=सज्जनों के साथ
= With the righteous

१०) सह (अ)--
= सोबत
=संगत
= With

११) कर्तव्य: >कर्तव्य (वि)--
= केला पाहिजे
=करना चाहिये
= Should be done

१२) सन्त: >सत् (पुं)--
=सज्जन लोक
=सज्जन
= The righteous people

१३) सङ्गस्य >सङ्ग(पुं)--
= आसक्तीचे
=आसक्ती का 
= Of attachment

१४) भेषजम् >भेषज(नपुं)--
= औषध
=दवा
= Medicine

प्रश्न-
१) सङ्गः कैः सह कर्तव्यः?
२) के सङ्गस्य भेषजम्?
३) सङ्गः केन त्याज्यः?

अन्वय--
सङ्ग: सर्वात्मना त्याज्य: । स: त्यक्तुं न शक्यते चेत् स: सद्भि: सह कर्तव्य: (यत:) सन्त: सङ्गस्य भेषजं (सन्ति) ।

अर्थ--

१) मराठी अर्थ-
आसक्ती/एकत्र राहणे सर्वथा टाळले पाहिजे. ते टाळणे शक्यच नसेल तर सज्जनासह राहिले पाहिजे/त्यांच्याबद्दल आसक्ती बाळगली पाहिजे; कारण सज्जन हेच आसक्तीवरचे रामबाण औषध आहेत. (सङ्ग शब्दाचे दोन अर्थ आहेत--आसक्ती, एकत्र राहणे. आध्यात्मिक साधकाला ही दोन्ही त्याज्य आहेत)

२) संस्कृतार्थ:--
मानवेन सर्वथा आसक्ति: परिहर्तव्या। यदा सः स्वयं आसक्तेः निराकरणं कर्तुं समर्थः नास्ति तर्हि कः उपायः ? सुभाषितकारेण उक्तं - सज्जनसङ्गः एव मनुष्यं निरासक्तं करोति।

३) हिंदी अर्थ--
सहवास/आसक्ती/संग सर्वथैव त्यागना चाहिये । अगर त्यागना शक्य नही है तो सज्जन के साथ रहना चाहिये।क्यों की सज्जन ही संग की रामबाण दवा है ।

४) English Meaning--
Attachment should be given up at all costs. If it is not possible to give it up,then it should be done with the righteous people. For the righteous people are the medicine for the disease of attachment.