६६) असतां पङ्कमग्नेन---।।

असतां पङ्कमग्नेन
यन्मनो मलिनीकृतम्।
तन्मेऽद्य निर्मलीभूतं
साधुसम्बन्धवारिणा।।

 ✓ पदच्छेद-- 
असताम्, पङ्कमग्नेन, यद् , मन:, मलिनीकृतम्, तत्, मे, अद्य, निर्मलीभूतम्, साधुसम्बन्धवारिणा।

शब्दार्थ-- 

१) असताम् >असत् (पुं)--
= वाईट लोकांच्या
= बुरे लोगों के/असत् लोगों की
= Of the unscrupulous people

२) सङ्गपङ्केन >सङ्गपङ्क (पुं, समास:)--
• सङ्ग: पङ्क: इव, तेन।
= संगतिरूपी चिखलाने
=संगत रुप कीचड़ से
= By the mud of association with

३) यद् (नपु)--
= जे
= जो
= Which

४) मन: >मनस् (नपुं)--
= मन
=मन
= Mind

५) मलिनीकृतम् >मलिनीकृत (वि, नपुं)> मलिन + कृ >मलिनीकृ (च्विधातु:)--
= घाण केलेले
=गंदा किया हुआ
= Made dirty/soiled

६) तत् >तद् (नपुं)--
= ते
=वह
= That

७) निर्मलीभूतम् >निर्मलीभूत (वि,नपुं)>निर्मल+ भू >निर्मलीभू (च्विधातु:)--
= स्वच्छ झाले
=स्वच्छ हो गया
= Got cleansed

८) साधुसम्बन्धवारिणा (समास:)--
• साधुभि: सम्बन्ध:, साधुसम्बन्ध:।
• साधुसम्बन्ध: एव वारि, तेन।
= सज्जनसंगतीरूपी पाण्याने
=सज्जनों के संगत रुप जल से
= By the water of the association with the good people.

प्रश्न--
१) कीदृशं मनः मलिनीकृतम्?
२) मलिनीकृतं मनः केन निर्मलीभूतम् ?

अन्वय--
यद् मे मन: असतां पङ्कमग्नेन मलिनीकृतं तत् अद्य साधुसम्बन्धवारिणा निर्मलीभूतम् ।

अर्थ--

१) मराठी अर्थ--
वाईट लोकांची संगत ही घाणेरड्या चिखलाप्रमाणे असते.त्या संगतीने जे माझे मन मलिन झाले होते, ते आज सज्जनसंगतिरूप पाण्याने धुतले गेल्यामुळे स्वच्छ झाले आहे.

२) संस्कृतार्थ:--
यथा पङ्केन शरीरं मलिनं भवति तथा दुष्टानां सङ्गत्याम् यन्मनः कलुषितं जातम् तत् सत्सङ्गजलस्य सिञ्चनेन शुचिर्भूतम्।

३) हिंदी अर्थ--
असत् लोगों की संगत रुप कीचड़ से जो मेरा मन मलीन हुआ था , वह आज सज्जनों के संगत रुप जल से धोवे जाने से स्वच्छ हो गया है ।

४) English Meaning-- 
Today my mind which had been dirtied by the mud of the association with the unscrupulous persons, has been cleansed thoroughly by the water of the association with the righteous.