उपकारोऽपि नीचाना-
मपकारो हि जायते।
पय:पानं भुजङ्गानां
केवलं विषवर्धनम्।।
मपकारो हि जायते।
पय:पानं भुजङ्गानां
केवलं विषवर्धनम्।।
✓ पदच्छेद--
उपकार:, अपि, नीचानाम्, अपकार:, हि, जायते, पय:पानम्, भुजङ्गानाम्, केवलम्, विषवर्धनम्।
उपकार:, अपि, नीचानाम्, अपकार:, हि, जायते, पय:पानम्, भुजङ्गानाम्, केवलम्, विषवर्धनम्।
✓ शब्दार्थ--
१) उपकार: >उपकार(पुं)--
= उपकार
= उपकार
= Acts of benefaction
२) अपि (अ)--
= सुद्धा
= भी
= Also
३) नीचानाम् > नीच (पुं)--
= नीच व्यक्तीवर केलेला
= नीच मनुष्य पर किया हुआ
= Done to the mean people
४) अपकार: > अपकार (पुं)--
= अपकार
=अपकार
= Misdeeds
५) हि (अ)--
= नक्कीच
=ही
= Verily
६) जायते >जन् (४आ)--
= बनतो /परिणत होतो.
=होता है
= Becomes/turns into
७) पय:पानम् >पय:पान (नपुं, समास:)--
• पयस: पानम्।
= दूध पिणे
= दूध पीना
= Drinking milk
८) भुजङ्गानाम् > भुजङ्ग (पुं)---
= सापांचे
= साँपों का
= Of the snakes
९) केवलम् (अ)--
= फक्त
=सिर्फ
= Only
१०) विषवर्धनम् >विषवर्धन (नपुं, समास:)--
• विषस्य वर्धनम्।
= विषातच भर घालण्यास कारणीभूत होतो
=विष में ही वृद्धी का कारण बनता है
= Increasing poison
✓ प्रश्न–
१) नीचानाम् उपकारस्य परिवर्तनं कस्मिन् भवति?
२) भुजङ्गानाम् पयःपानेन किं भवेत्?
✓ अन्वय--
नीचानाम् उपकार: अपि अपकार: हि जायते | भुजङ्गानां पय:पानं केवलं विषवर्धनम् (एव भवति)।
✓ अर्थ--
१) मराठी अर्थ--
नीच व्यक्तीवर केलेला उपकारही अपकारच ठरतो. सापाच्या दूध पिण्याने केवळ त्याच्या विषातच वाढ होते.
२) संस्कृतार्थ:--
जनाः भुजङ्गान् दुग्धं पाययन्ति किन्तु तेन भुजङ्गेषु विषं वर्धते। तथैव नीचजनेभ्यः कृतैः उपकारैः तेषाम् दुष्टस्वभावः न परिवर्तते। अन्यैः उपकारेषु कृतेषु सत्सु दुर्जनाः अपकारमेव कुर्वन्ति।
३) हिंदी अर्थ–
नीच ( हीन/दुर्जन ) व्यक्ती के उपर किया हुआ उपकार भी अपकार ही होता है जैसे साँप को दूध पिलाने से उसके विष में ही वृद्धी होती है ।
४) English Meaning--
The acts of benefaction done to the mean persons verily turn into misdeeds. The drinking of milk by the snakes only serves to increase their poison.