३१) संसारकटुवृक्षस्य------।।

संसारकटुवृक्षस्य 
द्वे फले अमृतोपमे।
सुभाषितरसास्वाद:
सङ्गति: सुजनै: सह।।

पदच्छेद-- 
संसारकटुवृक्षस्य, द्वे, फले, हि, अमृतोपमे, सुभाषितरसास्वाद:, सङ्गति:, सुजनै:, सह।

शब्दार्थ-- 

१) संसारकटुवृक्षस्य > संसारकटुवृक्ष (पुं,समास:)--
• कटु: वृक्ष:।
• संसार: एव कटुवृक्ष:, तस्य।
= संसाररूपी कटु वृक्षाची
= संसाररूप कटु वृक्ष के
= Of the bitter tasting tree called the world.

२) द्वे > द्वि (वि,नपुं)--
= दोन 
= दो
= Two

३) फले > फल (नपुं)--
= फळे
= फल
= Two fruits

४) हि (अ)--
= खरोखर
= सचमुच
= Verily

५) अमृतोपमे > अमृतोपम(वि,समास:)--
• अमृतम् उपमा ययो: ते।
= अमृताप्रमाणे
= अमृत के समान
= Comparable to nectar

६) सुभाषितरसास्वाद: > सुभाषितरसास्वाद (पुं, समास:)
•सुभाषितानां रस:, सुभाषितरस:।
• सुभाषितरसस्य आस्वाद:।
= सुभाषितांचे रसास्वादन
= सुभाषितों के रस का आस्वादन
= The appreciation of Subhashitas

७) सुजनै: >सुजन (पुं)--
= सज्जनां(सह)
= सज्जनों के (संग)
= Good people

८) सह (अ)--
= च्या सह
= के संग
= With

९) सङ्गति: > सङ्गति (स्त्री)--
= संगत
= संगति
= Company

प्रश्न--
१) संसारवृक्ष: कीदृश:?
२) तस्य द्वे फले कीदृशे?
३) ते फले के?

अन्वय-- 
संसारकटुवृक्षस्य द्वे अमृतोपमे फले (स्त:)--सुभाषितरसास्वाद:, सुजनै: सह सङ्गति: (च)।

अर्थ--

१) मराठी अर्थ-- 
संसाररूपी कडू वृक्षाची दोन फळे मात्र खरंच अमृतासमान आहेत-- सुभाषितांच्या रसाचे आस्वादन आणि संज्जनांचा सहवास.

२) संस्कृतार्थ:-- 
संसारवृक्ष: तत्रत्यतापत्रयात् कटुवृक्षसमान: अस्ति। तथापि तस्य द्वे फले अमृतसमे एव-- सुभाषितानां रसास्वाद: तथा च सज्जनै: सह सङ्गति:।

३) हिंदी अर्थ-- 
संसाररूप कटु वृक्ष के दो फल सचमुच अमृत के समान होते है--सुभाषितों के रस का आस्वादन और सज्जनों का सहवास।

४) English Meaning-- 
Only two fruits of the bitter tasting tree called the world are comparable to the nectar viz. the appreciation of the subhashitas and the company of good people