अहिंसा सत्यवचनं
सर्वभूतेषु चार्जवम्।
क्षमा चैवाप्रमादश्च
यस्यैते स सुखी भवेत्।।
सर्वभूतेषु चार्जवम्।
क्षमा चैवाप्रमादश्च
यस्यैते स सुखी भवेत्।।
✓ पदच्छेद--
अहिंसा, सत्यवचनम्, सर्वभूतेषु, च,आर्जवम्, क्षमा, च,एव, अप्रमाद:, च, यस्य, एते, स:, सुखी, भवेत्।
अहिंसा, सत्यवचनम्, सर्वभूतेषु, च,आर्जवम्, क्षमा, च,एव, अप्रमाद:, च, यस्य, एते, स:, सुखी, भवेत्।
✓ शब्दार्थ--
१) अहिंसा (स्त्री)--
= अहिंसा
= अहिंसा
= Non-violence
२) सत्यवचनम् >सत्यवचन (नपुं, समास:)--
• सत्यस्य वचनम्।
=खरे बोलणे
=सत्य वचन /सत्य बोलना
= Truthfulness
३) सर्वभूतेषु >सर्वभूत (नपुं,समास:)---
• सर्वाणि भूतानि, तेषु।
= सर्व प्राणीमात्रांना
=सभी जीवों को / सभी प्राणीमात्र को
= Towards all beings
४) च (अ)--
=आणि
=और
= And
५) आर्जवम् > आर्जव (नपुं)--
= सरलता
= सीधापन/ऋजुता/सरलता
= Straightforward attitude
६) क्षमा (स्त्री)--
=क्षमाशीलता
=क्षमा
= Fortitude
७) एव (अ)--
=निश्चितपणे
=निश्चितता से
= Certainly
८) अप्रमाद: >अप्रमाद (पुं)--
= कर्तव्य परायणता
=प्रमादहीनता/होशोहवास/जागरुकता
= Non-negligence of duties
९) यस्य >यद् (पुं)--
=ज्याच्या
=जिसके
= Whose
१०) एते >एतद्(पुं)--
=हे
=यह
= These
११) स: >तद् (पुं)--
=तो
=वह
= He
१२) सुखी >सुखिन् (वि, पुं)--
=आनंदी/ समाधानी
=सुखी/समाधानी
= Happy
१३) भवेत् >भू (१प)---
=होतात
=होते है
= Will become.
✓ प्रश्न--
१) सर्वभूतेषु किं भवेत्?
२) कः सुखी भवति?
✓ अन्वय--
अहिंसा सत्यवचनं सर्वभूतेषु आर्जवं च क्षमा च अप्रमाद: एव च --एते यस्य (भवन्ति) स: सुखी भवेत्।
✓ अर्थ--
१) मराठी अर्थ--
ज्याच्या अंगी अहिंसा, खरे बोलणे, सर्व प्राणिमात्रांच्या प्रती संवेदनशीलता, क्षमाशीलता व कर्तव्यपरायणता हे गुण असतात तो मनुष्य निश्चितपणे समाधानी असतोच.
२) संस्कृतार्थ:--
अहिंसा, सत्यपरायणता, सर्वभूतेषु कपटरहितं वर्तनं क्षमाशीलता, कर्तव्यपालने दक्षता एते यस्य गुणा: सन्ति स: मनुष्य: जगति सुखं प्राप्नोति।
३) हिंदी अर्थ--
जिसके पास अहिंसा , सत्यवचन , ऋजुता या सरलता, क्षमाशीलता और प्रमादहीनता या जागरुकता यह गुण रहते है वह मनुष्य निश्चित ही सुखी रहता है ।
४) English Meaning--
Non-violence, teuthfulness, straightforward attitude towards all beings, fortitude, and non-negligence of duties-- one who has these, will become happy in this world.