अर्थं महान्तमासाद्य
विद्यामैश्वर्यमेव वा।
विचरत्यसमुन्नद्धो
य: स पण्डित उच्यते।।
विद्यामैश्वर्यमेव वा।
विचरत्यसमुन्नद्धो
य: स पण्डित उच्यते।।
✓ पदच्छेद--
अर्थम्,महान्तम्, आसाद्य, विद्याम्, ऐश्वर्यम्, एव, वा, विचरति, असमुन्नद्ध:, य:, स:, पण्डित:,उच्यते।
अर्थम्,महान्तम्, आसाद्य, विद्याम्, ऐश्वर्यम्, एव, वा, विचरति, असमुन्नद्ध:, य:, स:, पण्डित:,उच्यते।
✓ शब्दार्थ--
१) अर्थम् >अर्थ (पुं)--
= संपत्ती/ धनसंपदा
= सम्पत्ति
= Wealth/money
२) महान्तम् >महत् (वि, पुं)--
=मोठ्या प्रमाणात
= बडी
= Great/large
३) आसाद्य (अ) >आ+सद् (१प)--
= मिळवून
= कमाकर
= Having obtained
४) विद्याम् >विद्या (स्त्री)--
=विद्या
= विद्या
= Knowledge
५) ऐश्वर्यम् >ऐश्वर्य (नपुं)--
=संपन्नता
= ऐश्वर्य
= Prosperity/affluence
६) एव (अ)--
=च
= और
= Certainly
७) वा (अ)--
=किंवा
= अथवा
= Or
८) विचरति >वि+चर् (१प)--
= वागतो
= बर्ताव करता है
= Behaves/moves about
९) असमुन्नद्ध: >असमुन्नद्ध (वि, पुं,समास:)--
• न समुन्नद्ध:।
= उद्धटपणा नसलेला / विनयशील
= गर्वरहित
= Devoid of haughter
१०) य: >यद् (पुं)--
=जो
= जो
= Who
११) स: >तद् (पुं)--
=तो
= वह
= He
१२) पण्डित: >पण्डित (पुं)--
= पण्डित / सुसंस्कृत
= पण्डित
= Learned/pundit
१३) उच्यते >वच् (२प)--
=म्हटले जाते
= कहा जाता है
= Is called
✓ प्रश्न--
१) पण्डितः कथं विचरति ?
२) किम् आसाद्य (लब्ध्वा) अपि स: विनयेन वर्तते?
✓ अन्वय--
य: महान्तम् अर्थं विद्याम् ऐश्वर्यम् एव वा आसाद्य असमुन्नद्ध: विचरति स: पण्डित: उच्यते।
✓ अर्थ--
१) मराठी अर्थ--
खूप मोठ्या प्रमाणावर ऐश्वर्य , आणि विद्या संपादन केल्यानंतर ही ज्यांचे वर्तन अत्यंत नम्रपणाचे व सुस़स्कृतपणाचे असते त्यांना पंडित असे म्हणतात.
२) संस्कृतार्थ:--
प्रचुरं धनं तथा उच्चविद्यां अधिगम्य यस्य आचरणे अनुद्धतं सौजन्यं विद्यते, स: पण्डित: उच्यते।
३) हिंदी अर्थ--
बडा धन, विद्या या ऐश्वर्य पा कर भी जो गर्वरहित आचरण करता है उसे ही पण्डित कहा जाता है।
४) English Meaning--
Even after obtaining great wealth, knowledge or prosperity he who remains devoid of haughter is verily called pundit.