५८) विद्या विवादाय---।।

विद्या विवादाय धनं मदाय
खलस्य शक्ति: परपीडनाय।
साधोस्तु सर्वं विपरीतमेतत्
ज्ञानाय दानाय च रक्षणाय।।

पदच्छेद-- 
विद्या, विवादाय, धनम्, मदाय, खलस्य, शक्ति:, परपीडनाय, साधो:,तु, सर्वम्, विपरीतम्, एतत्, ज्ञानाय, दानाय, च, रक्षणाय।

शब्दार्थ-- 
१) विद्या(स्त्री)--
= ज्ञान
= विद्या 
= Knowledge

२) विवादाय >विवाद (पुं)--
= वाद घालण्यासाठी 
=विवाद/वितंडवाद के लिये
= For argumentation

३) धनम् >धन (नपुं)--
= धन
=धन
= Wealth

४) मदाय >मद (पुं)--
= गर्विष्ठपणा करण्यासाठी
= उन्माद के लिये
= For arrogance

५) खलस्य >खल (पुं)--
= दुष्ट माणसाची
=दुष्ट/दुर्जन मनुष्यों की
= Of a villain

६) शक्ति: >शक्ति (स्त्री)--
= शक्ती
=शक्ति/बल
= Stength

७) परपीडनाय >परपीडन (नपुं, समास:)--
• परेषां पीडनम्।
= दुसऱ्यांना त्रास देण्यासाठी
=दूसरों को पीडा देने के लिये 
= For pestering others

८) साधो: >साधु (पुं)--
= सज्जनाचे
=सज्जनों का
= Of a righteous person

९) तु (अ)--
= परंतु
=किंतु /लेकिन
= But

१०) विपरीतम् >विपरीत (नपुं)--
= विरुद्ध
= विरुद्ध
= Opposite

११) एतत् >एतद् (नपुं)--
= हे
=यह
= This

१२) ज्ञानाय >ज्ञान (नपुं)--
= ज्ञानासाठी
=ज्ञान पाने के लिये 
= For knowledge

१३) दानाय > दान (नपुं)--
= दान करण्यासाठी
=दान करने के लिये 
= For giving away

१४) (अ)--
= आणि
=और
= And 

१५) रक्षणाय >रक्षण (नपुं)--
=रक्षणासाठी
=रक्षण करने के लिये 
= For protecting

प्रश्न--
१) खलस्य शक्तिः किमर्थं वर्तते
२) खलस्य विद्या किमर्थं भवति?
३) खलस्य धनं किमर्थं भवति?
४) साधोः शक्तिः किमर्थं भवति?
५) साधोः विद्या किमर्थं भवति?
६)साधोः धनं किमर्थं भवति?

अन्वय--
खलस्य विद्या विवादाय, धनं मदाय, शक्ति: परपीडनाय (भवति)। साधो: तु एतत् सर्वम् विपरीतम् (भवति)। (साधो: विद्या ) ज्ञानाय (धनं) दानाय (शक्ति:) च रक्षणाय (भवति) ।

अर्थ--

१) मराठी अर्थ-- 
खलपुरुषाचे ज्ञान हे वाद घालण्यासाठी, धन हे उन्मत्तपणा करण्यासाठी, तर शक्ती ही दुसऱ्यांना त्रास देण्यासाठी उपयोगाला येते. सज्जनाचे मात्र हे सर्व उलट असते-- त्याची विद्या अधिक ज्ञान मिळविण्यासाठी, धन हे दान करण्यासाठी आणि शक्ती दुबळ्यांच्या रक्षणासाठी कामी येते.

२) संस्कृतार्थ:--
दुर्जनः ज्ञानस्य उपयोगः कलहाय करोति। तस्य धनं केवलं गर्वं वर्धयति। सः स्वसामर्थ्येन अन्यान् पीडयति। सज्जनस्य सर्वं विपरीतं भवति। साधोः विद्या ज्ञानवर्धनार्थं अस्ति। तस्य धनं दानार्थं भवति। सः स्वशक्तिं दुर्बलानां रक्षणार्थम् एव उपयुङ्क्ते।  

३) हिंदी अर्थ–
दुष्ट पुरुषों की विद्या विवाद/वितंडवाद के लिये , धनसम्पदा यह उन्माद करने के लिये , शक्ती दूसरों का छल करने के लिये /पीडा देने के लिये होती है । साधुजनों ( सरल लोगों का ) का इसके विपरीत होता है—उनकी विद्या ज्ञान पाने के लिये , धनसम्पत्ती दान करने के लिये और शक्ती दुर्बलों का रक्षण करने के लिये होती है ।

४) English Meaning-- 
The knowledge of a villain is for argumentation, his wealth is for arrogance and his strength is utilised for pestering others. All this is the opposite in the case of a righteous person-- his knowledge is for acquiring still more knowledge, his wealth is for giving away in charity and his strength is utilised for protecting the weak