११७) अस्थि नास्ति------।।

अस्थि नास्ति शिरो नास्ति
बाहुरस्ति निरङ्गुलि:।
नास्ति पादद्वयं गाढ-
मङ्गमालिङ्गति स्वयम्।। 

पदच्छेद– अस्थि,न,अस्ति,शिर:,न,अस्ति,बाहु:,अस्ति,निरङ्गुलि:,न,अस्ति,पादद्वयम्,गाढम्,आङ्गम्,आलिङ्गति, स्वयम्।

शब्दार्थ-- 
१) अस्थि (नपुं)--
= हाडे 
= हड्डी
= A bone
   
२) न  अस्ति > अस् (२प)--
=नाही 
=नही है
= Is not

३) शिर: >शिरस् (नपुं)--
= डोके
=सिर/शिर/मस्तक
= Head

४) बाहु: > बाहु (पुं)--
=हात/ बाहु
=हाथ
= Arm

५) निरङ्गुलि: >निरङ्गुलि (वि,पुं,समास:)--
• निर्गता: अङ्गुलय: यस्मात् ।
=बोटे नसलेले 
=जिसे उँगलियाँ नही है ऐसा
= Fingerless

६) पादद्वयम् > पादद्वय (नपुं)--
=(दोन )पाय
=दो पैर
= A pair of legs

७) गाढम् (अ)--
= घट्ट 
=कस के
= Tightly

८) अङ्गम् >अङ्ग (नपुं)--
= शरीर
=शरीर/देह/तन
= Body

९) आलिङ्गति > आ+लिङ्ग् (१प)--
=मिठी मारतो 
=आलिंगन देता है /गले मिलता है ।
= Embraces

१०) स्वयम् (अ)--
=स्वतः 
=खुद
= By Itself

प्रश्न-- 
१) किं किं नास्ति इति उक्तम्?
२) श्लोके किं किं अस्ति इति उक्तम्?
३) बाहु: कीदृश: अस्ति?
४) अङ्गं कथम् आलिङ्गति?

अन्वय
 (एतस्य) अस्थि नास्ति,शिर: नास्ति , पादद्वयम् (अपि) नास्ति। (एतस्य) बाहु: निरङ्गुलि: (अस्ति)। (एतत्) स्वयम् अङ्गं गाढम् आलिङ्गति। (एतत् किम्?)

अर्थ--

१) मराठी अर्थ--
याला हाडे नाहीत, डोके नाही.याला हात ( बाहु) आहेत पण ( त्याला) बोटेच नाहीत! त्याला (दोन) पाय ही नाहीत पण तो स्वतः च शरीराला घट्ट मिठी मारतो.सांगा बरे हा कोण?

ही सर्व वैशिष्ट्ये कोणा मनुष्याची नाहीत तर अंगात घातल्या जाणाऱ्या शर्टाची आहेत . म्हणून कोड्याचे उत्तर आहे ' शर्ट'

२) संस्कृतार्थ:--
यस्य अस्थि नास्ति, शिरः नास्ति , बाहुः नास्ति , अङ्गुलयः न सन्ति , पादद्वयं नास्ति किन्तु स्वयं  गाढं आलिङ्गति तत् किम् ?

एतस्य उत्तरम् 'युतकम्' इति अस्ति यत: एतानि सर्वाणि वैशिष्ट्यानि युतके दृश्यन्ते।

३) हिंदी अर्थ–
इसे हड्डी नही है , मस्तक नही है । हाथ है लेकिन उँगलिया नही है ! इसे दोनो पैर नही है पर जो खुद ही शरीर को कस के पकड़ता है । बताओ यह कौन है ?

कमीज़ को हड्डी , मस्तक , उँगलियाँ  ओर पैर नही रहते फिर भी वो शरीर को कस के पकडता है ! इसलिये इसका जवाब " कमीज़ " है । 

४) English Meaning-- 
It doen't have bones nor the head.It has arms but they are fingerless. It doesn't have a pair of legs. By itself,it embraces the body tightly. (What is it?)

All these are the characteristics of 'shirt' (युतकम्).So shirt  is the answer