खलानां कण्टकानां च
द्विविधैव प्रतिक्रिया।
उपानन्मुखखभङ्गो वा
दूरतो वा विसर्जनम्।।
द्विविधैव प्रतिक्रिया।
उपानन्मुखखभङ्गो वा
दूरतो वा विसर्जनम्।।
✓ पदच्छेद--
खलानाम्, कण्टकानाम्, च, द्विविधा, एव, प्रतिक्रिया, उपानन्मुखभङ्ग:, वा, दूरत:, वा, विसर्जनम्।
खलानाम्, कण्टकानाम्, च, द्विविधा, एव, प्रतिक्रिया, उपानन्मुखभङ्ग:, वा, दूरत:, वा, विसर्जनम्।
✓ शब्दार्थ--
१) खलानाम् >खल (पुं)--
= दुष्टांचा
= दुष्टों का
= In case of the villains
२) कण्टकानाम् >कण्टक (पुं)--
= काट्यांचा
=कांटों का
= In case of the thorns
३) द्विविधा (स्त्री, समास:)--
• द्वे विधे यस्या:।
= दोन प्रकारचा
=दो प्रकार से
= Twofold
४) एव (अ)--
= नक्कीच
=ही
= Verily/certainly
५) प्रतिक्रिया (स्त्री)--
= प्रतिकार
=प्रतिकार
= Reciprocation/response
६) उपानन्मुखभङ्ग: (पुं, समास:)--
• मुखस्य भङ्ग:, मुखभङ्ग:।
• उपानहा मुखभङ्ग:।
= चपलेने तोंड फोडणे
=खडाऊँ /जूते से मुँह फोडना /दबाना /तोडना
= Smashing the face with a chappal
७) दूरत:(अ)--
= दूरवरूनच
=दूर से ही
= From a distance
८) वा (अ)--
= किंवा
=या
= Or
९) विसर्जनम् >विसर्जन (पुं)--
= सोडून देणे/त्याग
=छोड देना /त्याग करना
= Abandoning/dismissal
✓ प्रश्न--
१) केषां केषां द्विविधा प्रतिक्रिया कर्तव्या?
२) उपानन्मुखभङ्गः केषां करणीयः?
३) केषां दूरतः विसर्जनम् करणीयम्?
✓ अन्वय--
खलानां कण्टकानां च प्रतिक्रिया--उपानन्मुखभङ्ग: दूरत: वा विसर्जनम् (एवं) द्विविधा एव (अस्ति)।
✓ अर्थ--
✓ अर्थ--
१) मराठी अर्थ--
दुष्टांचा आणि काट्यांचा दोन प्रकारे प्रतिकार करावा-- चपलेने त्यांचे तोंड फोडावे किंवा दूरवरूनच त्यांचा त्याग करावा.
२) संस्कृतार्थ:--
दुष्टानां कण्टकानां वा प्रकारद्वयेन एव प्रतिकार: शक्य:-- पादत्रेण मुखताडनं कृत्वा अथवा दूरात् एव तान् त्यक्त्वा।
३) हिंदी अर्थ--
दुष्टों का और कांटों का दो प्रकार से ही प्रतिकार करना चाहिये । खडाऊँ या जूते से मुँह फोडना या दूर से ही उनका त्याग करना चाहिये ।
४) English Meaning--
The response to the villains or the thorns is twofold-- smashing their face with a chappal or dismissing them from a distance.