आलस्यं हि मनुष्याणां
शरीरस्थो महारिपु:।
नास्त्युद्यमसमो बन्धु:
कुर्वाणो नावसीदति।।
शरीरस्थो महारिपु:।
नास्त्युद्यमसमो बन्धु:
कुर्वाणो नावसीदति।।
✓ पदच्छेद--
आलस्यम्, हि, मनुष्याणाम्, शरीरस्थ:, महारिपु:, न, अस्ति, उद्यमसम:, बन्धु:, कुर्वाण:, न , अवसीदति।
आलस्यम्, हि, मनुष्याणाम्, शरीरस्थ:, महारिपु:, न, अस्ति, उद्यमसम:, बन्धु:, कुर्वाण:, न , अवसीदति।
✓ शब्दार्थ--
१) आलस्यम् >आलस्य (नपुं)--
= आळस
= आलस्य
= Sluggishness/laziness
२) हि (अ)--
= खरोखर
=सही में
= Verily
३) मनुष्याणाम् >मनुष्य (पुं)--
= मनुष्याच्या
=नर के /आदमी के
= Of men
४) शरीरस्थ: >शरीरस्थ (वि,पुं, समास:)--
• शरीरे तिष्ठति इति।
= शरीरातील
=शरीर में का /देह का
= Residing in the body
५) महारिपु: >महारिपु (पुं,समास:)--
• महान् रिपु:।
= मोठा शत्रु
=बड़ा शत्रु
= Great foe
६) न (अ)--
= नाही
=नही
= Not
७) अस्ति >अस् (२प)--
= आहे
=है ।
= Is
८) उद्यमसम: >उद्यमसम (वि.पुं,समास:)--
• उद्यमेन सम:।
= उद्योगाप्रमाणे
=उद्योग के समान
= Like effort/dilligence
९) बन्धु: >बन्धु (पुं)--
= भाऊ
=बन्ध/भाई
= Relative
१०) कुर्वाण: >कुर्वाण (वि,पुं)--
= करतो
=करता है ,
= Doer
११)अवसीदति >अव + सद् (१प)--
= दुःखी होत नाही
=दुःखी नही होता है ।
= Gets destroyed
✓ प्रश्न--
१) मनुष्याणां महारिपु: क:?
२) स: कुत्र तिष्ठति?
३) केन सम: बन्धु: नास्ति?
४) उद्यमं कुर्वाणस्य क: लाभ:?
✓ अन्वय--
आलस्यम् हि मनुष्याणाम् शरीरस्थ: महारिपु: (अस्ति) । उद्यमसम: (मनुष्याणाम् अन्य:) बन्धु: न अस्ति। कुर्वाण: (मनुष्य: कदापि) न अवसीदति।
✓ अर्थ--
१) मराठी अर्थ--
खरोखर आळस हा मनुष्याच्या शरीरातील मोठा शत्रु आहे. उद्योगाप्रमाणे मनुष्याचा बंधु नाही, जो प्रयत्न करतो तो कधीच दुःखी होत नाही.
२) संस्कृतार्थ:--
आलस्यं सत्यमेव मनुष्याणां शरीरे विद्यमान: महान् शत्रु: विद्यते। प्रयत्नसदृश: मनुष्यस्य अपर: बन्धु: नास्ति। य: प्रयत्नान् करोति तस्य नाश: कदापि न भवति।
३) हिंदी अर्थ--
सही में आलस यह नरदेह का बड़ा शत्रु है । उद्योग के समान आदमी का ( दूसरा अच्छा ) बंधनही , जो यत्न करता है वह कभी दुःखी नही होता ।
४) English Meaning--
Laziness is verily a great foe residing in the body of man. There is no relative like effort. He who does effort, never gets destroyed.