जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति।
चेत: प्रसादयति दिक्षु तनोति कीर्तिं
सत्सङ्गति: कथय किं न करोति पुंसाम्।।
मानोन्नतिं दिशति पापमपाकरोति।
चेत: प्रसादयति दिक्षु तनोति कीर्तिं
सत्सङ्गति: कथय किं न करोति पुंसाम्।।
✓ पदच्छेद--
जाड्यम्, धिय:, हरति, सिञ्चति, वाचि, सत्यम्, मानोन्नतिम्, दिशति, पापम् , अपाकरोति, चेत:, प्रसादयति, दिक्षु, तनोति, कीर्तिम्, सत्सङ्गति:, कथय, किम्, न, करोति, पुंसाम्।
जाड्यम्, धिय:, हरति, सिञ्चति, वाचि, सत्यम्, मानोन्नतिम्, दिशति, पापम् , अपाकरोति, चेत:, प्रसादयति, दिक्षु, तनोति, कीर्तिम्, सत्सङ्गति:, कथय, किम्, न, करोति, पुंसाम्।
✓ शब्दार्थ--
१) जाड्यम् >जाड्य (नपुं)--
= बुध्दीमांद्य/ बुध्दीची कमतरता
= जडता, मंदता
= Thickness/dullness
२) धिय: >धी (स्त्री)--
=बुध्दीची
= बुद्धि की
= Of the intellect
३) हरति > हृ (१प)--
= नाहीशी करतो
= नष्ट करती है
= Takes away
४) सिञ्चति >सिच् (६प)--
=शिंपडतो/ आणतो
= सींचती है
= Sprinkles
५) वाचि >वाच् (स्त्री)--
=वाणी मध्ये
= वाणी में
= In the speech
६) सत्यम् >सत्य (नपुं)--
=सच्चेपणा/ सत्य
= सत्य
= Truth /truthfulness
७) मानोन्नतिम् > मानोन्नति (स्त्री, समास:)--
• मानस्य उन्नति:, ताम्।
=आदरभावाची वृध्दी
= सम्मान मे बढोतरी
= Increase in the respect
८) दिशति >दिश् (६ प)--
= देतो
= करती है
= Gives/grants
९) पापम् > पाप (नपुं)--
=पाप
= पाप
= Sin
१०) अपाकरोति >अप +आ+कृ (८प)---
=दूर करतो/ नाहीसे करतो
= दूर करती है
= Removes
११) चेत: >चेतस् (नपुं)--
=मनाला
= मन को
= Mind
१२) प्रसादयति >प्र+सद् (१प)--णिजन्तम्।
=आनंदित करते
= प्रसन्न करती है
= Enlivens/ cheers up
१३) दिक्षु >दिश् (स्त्री)--
=सर्वत्र/ सगळीकडे
= सभी दिशाओं में।
= In all directions
१४) तनोति >तन् (८प)--
=पसरवितो
= फैलाती है।
= Spreads
१५) कीर्तिम् >कीर्ति (त्री)--
=कीर्ती
= कीर्ति
= Fame
१६) सत्सङ्गति: >सत्सङ्गति (स्त्री, समास:)--
• सतां सङ्गति:।
=सज्जनांचा सहवास
= सज्जनों की संगति
= Association with good people
१७) कथय >कथ् (१० प)--
=कृपया सांगावे
= बोलो
= Please tell
१८) किम् (नपुं)--
=काय
= क्या
= What
१९) न करोति >कृ (८प)--
=करीत नाही
= नही करती है
= Doesn't do
२०) पुंसाम् > पुंस् (पुं)--
=माणसांसाठी
= मनुष्यों के लिए
= Of men/human beings.
✓ प्रश्न--
१) सत्सङ्गतिः धियः किं हरति?
२) सत्सङ्गतिः वाचि किं सिञ्चति ?
३) सा किं दिशति (ददाति) ?
४) सत्सङ्गतिः किम् अपाकरोति?
५) सा किं प्रसादयति?
५) सत्सङ्गतिः कुत्र कीर्तिं तनोति?
✓ अन्वय–
धिय: जाड्यं हरति, वाचि सत्यं सिञ्चति, मानोन्नतिं दिशति, पापम् अपाकरोति, चेत: प्रसादयति, कीर्तिं दिक्षु तनोति। कथय,सत्सङ्गति: पुंसां किं न करोति ?
✓ अर्थ--
१) मराठी अर्थ–
( सज्जनांच्या सहवासात) माणसाच्या बुध्दीची जडता नाहीशी होते.त्याच्या वाणीमध्ये सत्याचा प्रवेश होतो.इतरांच्या मनातील त्या व्यक्तीबद्दलचा आदरभाव वृध्दिंगत होतो, सज्जनांच्या सहवासात माणसाचे पाप नाहीसे होते व मन आनंदित होते.माणसाची कीर्ती सर्वदूर पसरते.अशाप्रकारे सत्संगती माणसाला काय देत नाही बरे? अर्थात सर्व काही देते.
२) संस्कृतार्थ:--
सत्सङ्गतिः बुद्धेः जडतां दूरीकरोति। वाण्यां सत्यं संचारयति। मानस्य उन्नतिं कारयति। पुरुषं पापात् मोचयति। मनः प्रसादयति। कीर्तिं सर्वत्र प्रसारयति। सत्सङ्गतिः पुरुषस्य कृते किं न करोति , वद।
३) हिंदी अर्थ--
सज्जनों की संगति बुद्धि की जडता को दूर करती है, वाणी को सत्यपरायण बनाती है, सम्मान में बढौतरी कराती है, पाप को दूर भगाती है, मन को प्रसन्न करती हे, सभी दिशाओं मे कीर्ति फैलाती है.बताओ, सत्सङ्गति मनुष्यों को लिए क्या नही करती?
४) English Meaning--
It dispels the thickness of the intellect, sprinkles (inculcates) truthfulness in the speech, causes increase in the respect by others, removes sin, cheers up the mind, and spreads fame in all directions-- Pray tell me what does the association with the good people not accomplish for men.