आगमानां हि सर्वेषाम्
आचार: श्रेष्ठ उच्यते।
आचारप्रभवो धर्मो
धर्मादायुर्विवर्धते।।
आचार: श्रेष्ठ उच्यते।
आचारप्रभवो धर्मो
धर्मादायुर्विवर्धते।।
✓ पदच्छेद--
आगमानाम्, हि, सर्वेषाम्, आचार:, श्रेष्ठ:, उच्यते, आचारप्रभव:, धर्म:, धर्मात्, आयु:, विवर्धते।
आगमानाम्, हि, सर्वेषाम्, आचार:, श्रेष्ठ:, उच्यते, आचारप्रभव:, धर्म:, धर्मात्, आयु:, विवर्धते।
✓ शब्दार्थ--
१) आगमानाम् >आगम (पुं)--
= शास्त्रामध्ये
= शास्त्रों में
= Among the scriptures (scriptural duties)
२) हि (अ)--
=निश्चितपणे
=ही/निश्चितता से / स्वाभाविकता से
= Certainly
३) सर्वेषाम् >सर्व (पुं)--
= सर्वांमध्ये
=सब के बीच/सब में
= Among all
४) आचार: >आचार (पुं)--
=वर्तन नियम
=आचार/बर्ताव के नियम/आचरण के नियम या व्यवहार के नियम या अनुष्ठान के नियम
= Righteous conduct
५) श्रेष्ठ: >श्रेष्ठ (पुं)---
=श्रेष्ठ
=श्रेष्ठ
= Excellent
६) उच्यते >वच् (२प,कर्मणि)--
= म्हटले जाते
= कहा जाता है
= Is called
७) आचारप्रभव: >आचारप्रभव (वि,पुं,समास:)--
• आचारात् प्रभवति इति।
=सदाचरण
=सदाचरण या सदाचार या उत्तम व्यवहार या अनुष्ठान से निर्मित
= That which is born of good conduct
८) धर्म: >धर्म (पुं)--
= धर्माचरण
= धर्माचरण
= Religious merit
९) धर्मात् > धर्म (पुं)--
=धर्माद्वारे
=धर्मद्वारा
= From the religious merit
१०) आयु: > आयुस् (नपुं)--
=आयुष्य/ जीवन
=आयुष्य/जीवन
= Life
११) विवर्धते >वि+ वृध् (१आ)--
=वाढते
=बढ़ता है
= Extends/lengthens
✓ प्रश्न--
१) सर्वेषाम् आगमानां कः श्रेष्ठः?
२) धर्मः कीदृशः भवति?
३) कस्मात् आयुः विवर्धते ?
✓ अन्वय--
सर्वेषाम् आगमानां आचार: हि श्रेष्ठ: उच्यते।धर्म: आचारप्रभव: (अस्ति)। धर्मात् आयु: विवर्धते।
✓ अर्थ--
१) मराठी अर्थ–
सर्व शास्त्रांमध्ये सदाचरण हेच सर्वश्रेष्ठ आहे असे सांगितले जाते, कारण सदाचरणातूनच धर्म निर्माण होतो जो मनुष्याची आयुर्मर्यादा वाढवितो
.
२) संस्कृतार्थ:--
सर्वेषाम् आगमानां आचार: हि श्रेष्ठ: उच्यते।धर्म: आचारात् प्रभवति। धर्मात् आयु: विवर्धते।
२) संस्कृतार्थ:--
सर्वेषाम् आगमानां आचार: हि श्रेष्ठ: उच्यते।धर्म: आचारात् प्रभवति। धर्मात् आयु: विवर्धते।
३) हिंदी अर्थ–
सभी शास्त्रों में सदाचार ही सर्वश्रेष्ठ है ऐसा कहा जाता है क्यों की सदाचार से ही धर्माचरण की निर्मिती होती है जिससे मनुष्यमात्र की आयुष्य की वृद्धी होती है।
४) English Meaning--
Among all scriptural duties, good conduct is said to be the most excellent because it produces religious merit which in tern certainly lengthens the span of life.