६८) पिबन्ति नद्यः ------।।

पिबन्ति नद्यः स्वयमेव नाम्भः 
स्वयं न खादन्ति फलानि वृक्षाः। 
धाराधरो वर्षति नात्महेतोः 
परोपकाराय सतां विभूतयः ।।

पदच्छेद--
पिबन्ति, नद्यः, स्वयम्, एव, न, अम्भः, स्वयम्, न, खादन्ति, फलानि, वृक्षाः, धाराधरः, वर्षति, न, आत्महेतोः, परोपकाराय, सताम्, विभूतयः।

शब्दार्थ--

१) न पिबन्ति >पा (१प)-- 
= पीत नाहीत 
= पीती नही है ।
= Do not drink

२) नद्यः> नदी (स्त्री)--
=नद्या
= नदियाँ
= Rivers

३) स्वयम् (अ)--
= स्वतः
= खुद
= Self

४) एव (अ)--
= निश्चितपणे
= ही
= Certainly

५) अम्भः > अम्भस् (नपुं)--
= पाणी
= पानी
= Water

६) न खादन्ति > खाद् (१प)--
= खात नाहीत
= खाते नही है ।
= Do not eat

७) फलानि > फल (नपुं)--
= फळे
= फल
= Fruits

८) वृक्षाः > वृक्ष (पुं)--
= वृक्ष
= वृक्ष/पेड़
= Trees

९) धाराधरः >धाराधर (पुं)--
= मेघ
= मेघ/बादल
= A cloud

१०) न वर्षति > वृष् (१प)--
= पाऊस पाडत नाही
= वर्षा करते नही है 
= Does not rain

११) आत्महेतोः >आत्महेतु (पुं, समासः)-
• आत्मनः हेतुः (प्रयोजनम्), तस्मात्।
= स्वार्थासाठी, स्वतःसाठी
= खुद के लिये / स्वार्थ हेतू से
= With selfish motive

१२) परोपकाराय > परोपकार (पुं)--
= परोपकारासाठी
= परोपकार के लिये
= For altruistic purposes/for helping others.

१३) सताम् > सत् (पुं)--
= सज्जनांची
= सज्जनों की/सज्जनों का
= Of the righteous people

१४) विभूतयः> विभूति (स्त्री)-- 
= ऐश्वर्य
= ऐश्वर्य / सम्पदा/सम्पत्ती
= Wealth

प्रश्न--
१) नद्यः स्वयमेव किं न पिबन्ति?
२) वृक्षाः स्वयं कानि न खादन्ति?
३) कः आत्महेतोः न वर्षति ?
४) सतां विभूतयः किमर्थं भवन्ति?

अन्वय--
नद्यः स्वयम् एव अम्भः न पिबन्ति ।वृक्षाः स्वयम् फलानि न खादन्ति ।धाराधरः आत्महेतोः न वर्षति।
(एवं) सताम् विभूतयः परोपकाराय (एव भवन्ति)।

अर्थ--

१) मराठी अर्थ-- 
नद्या नक्कीच स्वतःचे पाणी स्वतः पीत नाहीत. वृक्ष स्वतःच आपली फळे खात नाहीत. मेघ स्वार्थी हेतूने/स्वतः साठी पाऊस पाडत नाही. सज्जनांची समृद्धी ही नेहमी परोपकार करण्यासाठीच असते.

२) संस्कृतार्थ:--
नद्यः अम्भः स्वयं न पिबन्ति। वृक्षाः फलानि स्वयं न खादन्ति। मेघाः स्वार्थाय न वर्षन्ति। सज्जनानां सम्पदः परोपकाराय भवन्ति।

३) हिंदी अर्थ-- 
नदियाँ खुद का पानी खुद नही पीती, यह पक्का । पेड़ खुद का फल खुद नही खाते । बादल स्वार्थ हेतू से खुद के लिये बरसात नही करते । सज्जनों की सम्पदा यह हमेशा परोपकार के लिये ही होती है ।

४) English Meaning-- 
The rivers certainly don't drink their own water. Trees don't eat their own fruit. The clouds don't rain for any selfish purpose. The wealth of the righteous is only for helping others.