६२) सद्भिस्तु लीलया---।।

सद्भिस्तु लीलया प्रोक्तं
शिलालिखितमक्षरम्।
असद्भिस्तु शपथेनोक्तं
जले लिखितमक्षरम्।।

पदच्छेद-- 
सद्भि:, तु, लीलया, प्रोक्तम्, शिलालिखितम्, अक्षरम्, असद्भि:, तु, शपथेन,उक्तम्, जले, लिखितम्, अक्षरम्।

शब्दार्थ-- 

१) सद्भि: > सत् (पुं)--
= सज्जनांनी
= सज्जनों ने/सज्जनों द्वारा
= By the righteous people

२) तु (अ)--(अवधारणम्, निश्चय:) 
= नक्कीच
=सही में
= Certainly

३) लीलया >लीला (स्त्री)--
= सहजपणे
=सहजतया/लीलया
= Casually

४) प्रोक्तम् > प्र+ वच् (२प) > प्रोक्त (वि, नपुं)--
= म्हंटलेले, उच्चारलेले
= बोले गये
= Uttered

५) शिलालिखितम् >शिलालिखित (नपुं, समास:)--
• शिलायां लिखितम्।
= शिळेवर लिहिलेले/कोरलेले (म्हणून पुसता न येणारे)
= शिला के उपर लिखा हुआ
= Written /etched on a stone (therefore which can't be obliterated)

६) अक्षरम् >अक्षर ( नपुं)--
= अक्षर
= अक्षर
= Letter

७) असद्भि: > असत् (पुं)--
= दुर्जनांनी
=दुर्जनों ने/दुर्जनों द्वारा
= By the unscrupulous persons 

८) शपथेन >शपथ (पुं)
= शपथपूर्वक
=शपथपूर्वक
= Under oath

९) उक्तम् >वच् (२प)> उक्त (वि, नपुं)--
= बोललेले
=बोला हुआ
= Said

१०) जले >जल (नपुं)--
= पाण्यावर
=पानी के उपर
= On water

११) लिखितम् >लिख् (६प)>लिखित (वि, नपुं)--
= लिहिलेले
=लिखा हुआ
= Written

प्रश्न-- 
१) कैः लीलया प्रोक्तं अक्षरं शिलालिखितमक्षरं वर्तते?
२) कैः शपथेन उक्तम् अक्षरं जले लिखितम् अक्षरं वर्तते?

अन्वय--
सद्भि: तु लीलया प्रोक्तं शिलालिखितम् अक्षरं (भवति)। असद्भि: तु शपथेन उक्तं जले लिखितम् अक्षरं (भवति)।
 
अर्थ--

१) मराठी अर्थ–
सज्जनांनी सहजगत्या उच्चारलेली गोष्ट शिळेवर कोरलेल्या अक्षराप्रमाणे (कायम टिकणारी, पुसली न जाणारी) असते; तर दुर्जनानांनी शपथेवर उच्चारलेली गोष्ट पाण्यावर लिहिलेल्या अक्षरांप्रमाणे (क्षणभंगुर) असते. 

२) संस्कृतार्थ:- 
यथा शिलायां लिखितं अक्षरं न नश्यति तथैव साधुमुनिभिः यत् उक्तं तद् सर्वं प्रत्यक्षीभवति। अन्यजनैः शपथेन अपि यत् कथितं तत् जले लिखितं अक्षरमिव क्षणादेव नश्यति।

३) हिंदी अर्थ–
सज्जनो द्वारा सहजतया बोले गये (शब्द) शिलालिखित अक्षरों समान रहता है , पर दुर्जनों द्वारा शपथपूर्वक उच्चारित वाणी पानी पे लिखे अक्षरों समान होती है ।

४) English Meaning-- 
The words casually uttered by the righteous persons are (permanent) like a letter etched on a stone but those said under oath by the unscrupulous persons are (momentary) verily like a letter written on water.