धर्मार्थकाममोक्षाणां
यस्यैकोऽपि न विद्यते।
अजागलस्तनस्यैव
तस्य जन्म निरर्थकम्।।
यस्यैकोऽपि न विद्यते।
अजागलस्तनस्यैव
तस्य जन्म निरर्थकम्।।
✓ पदच्छेद--
धर्मार्थकाममोक्षाणाम्, यस्य, एक:,अपि,न,विद्यते, अजागलस्तनस्य, इव , तस्य जन्म, निरर्थकम्।
✓ शब्दार्थ--
१) धर्मार्थकाममोक्षाणाम् >धर्मार्थकाममोक्ष (पुं,समास:)--
धर्म: च अर्थ: च, काम: च मोक्ष: च धर्मार्थकाममोक्षा:, तेषाम्।
= धर्म, अर्थ काम आणि मोक्ष या चार पुरुषार्थांच्या
= धर्म , अर्थ , काम और मोक्ष इन चार पुरुषार्थो में से
= Of the fourfold aims of human life viz Dharma (sacred duty) , Artha (procurement of wealth) Kama (enjoyment of the senses) Moksha (Liberation from transmigratory existence)
२) यस्य >यद् (पुं)--
=ज्याचे
=जिसके
= Whose
३) एक: >एक (वि,पुं)
= एक
=एक
= Single
४) अपि (अ)--
=सुध्दा
=भी
= Also
५) न (अ)--
=नाही
=नही
= Not
६) विद्यते >विद् (४आ)--
=असते
=रहते है
= Doesn't exist
७) अजगलस्तनस्य >अजागलस्तन (पुं,समास:)--
• अजस्य गल:।
• अजागलस्य स्तन:।
=बकरीच्या गळ्यापाशी लोंबणारे मांसल भाग ( स्तन)
=बकरी के गले से लटकनेवाला स्तन (मांस का भाग)
= wattles on the throat of a she-goat
८) इव (अ)--
= प्रमाणे
=समान
= Like
९) तस्य >तद् (पुं)--
=त्याचा
=उसका
= His
१०) जन्म >जन्मन् (नपुं)--
=जन्म
=जन्म
= Birth
११) निरर्थकम् >निरर्थक (नपुं,समास:)-
• निर्गत: अर्थ: यस्मात् तत्।
=निरर्थक
=निरर्थक/अर्थहीन/बेकाम/बगैर काम का
= Meaningless/ worthless/futile
✓ प्रश्न--
१) कस्य मनुष्यस्य जन्म निरर्थकं भवति?
२) किम् इव तस्य मनुष्यस्य जन्म निरर्थकं भवति?
✓ अन्वय--
यस्य धर्मार्थकाममोक्षाणां (पुरुषार्थानाम्) एक: अपि न विद्यते, तस्य जन्म अजागलस्तनस्य इव निरर्थकं (वर्तते) ।
✓ अर्थ--
१) मराठी अर्थ–
असा माणूस ज्याने जीवनात धर्म, अर्थ, काम आणि मोक्ष या चार पुरुषार्थांपैकी एकाचे ही पालन केले नाही त्याचे जीवन बकरीच्या गळ्यापाशी लोंबणाऱ्या (खोट्या) स्तनाप्रमाणे निरर्थक असते
२) संस्कृतार्थ:--
यथा अजस्य लम्बमानः गलस्तनः निरर्थकः तथैव यः धर्मार्थकाममोक्षेषु एकमपि गुणं न अधिगच्छति तस्य जन्मः अर्थहीनं भवति।
३) हिंदी अर्थ–
जिसके पास धर्म , अर्थ , काम और मोक्ष इन चार पुरुषार्थो में से एक भी नही है ईसका जीवन बकरी के गले में लटकनेवाले मांस के टुकड़े जैसा निरर्थक है ।
४) English Meaning--
He who doen't pursue/doen't have even a single one of the fourfold aims of the human life viz-- Dharma, Artha, Kama and Moksha, his life is futile like the wattles hanging from the throat of the she-goat.