२०) नरस्याभरणं रूपं------।।

नरस्याभरणं रूपं 
रूपस्याभरणं गुण:। 
गुणस्याभरणं ज्ञानं 
ज्ञानस्याभरणं क्षमा।। 

पदच्छेद--
नरस्य, आभरणम्, रूपम्, रूपस्य, आभरणम्,गुण:,गुणस्य , आभरणम्, ज्ञानम्, ज्ञानस्य, आभरणम् , क्षमा।

शब्दार्थ-- 

१) नरस्य > नर (पुं)--
= मनुष्याचा 
= मनुष्य का
= Of man

२) आभरणम् > आभरण (नपुं)--
= अलंकार 
=अलंकार/आभूषण/गहना/जेवर
= Ornament

३) रूपम् > रूप (नपुं)
= रुप 
=रुप
= Good looks

४) गुण: > गुण (पुं)--
= गुण 
=गुण
= Virtue

५) ज्ञानम् > ज्ञान (नपुं)--
= ज्ञान 
=ज्ञान
= Knowledge

६) क्षमा (स्त्री)--
= क्षमा 
=क्षमा
= Forebearance

प्रश्न--
१) नरस्य आभरणं किम्?
२) गुण: कस्य आभरणम्?
३) गुणस्य आभरणं किम्?
४) क्षमा कस्य आभरणम्?

अन्वय--   
नरस्य आभरणं रूपम् (अस्ति)। रूपस्य आभरणम् गुण: (अस्ति)। गुणस्य आभरणं ज्ञानम् (अस्ति )। ज्ञानस्य आभरणं क्षमा (अस्ति)।
 
अर्थ--

१) मराठी अर्थ--
रूप हा मनुष्याचा दागिना आहे, गुण हा रूपाचा दागिना आहे, ज्ञान हा गुणाचा दागिना आहे तर क्षमा हा ज्ञानाचा दागिना आहे.

२) संस्कृतार्थ:-- 
मनुष्यस्य रूपं प्रथमं दृष्टिपथम् आगच्छति । तस्य दर्शनेन एव स: मनुष्यः कीदृशः भवेत् इति कल्पना कर्तुं शक्यते । अत: नरस्य आभरणं रूपं इति सुभाषितकार: कथयति । यदि मनोहरं रूपं भवति तथापि तस्य समीपे यदि गुणाः न सन्ति तत: तेन सुन्दरेण रूपेण किम् ? अत: गुण: एव रूपस्य आभरणम् अस्ति । गुणै: सह ज्ञानमपि आवश्यकम् । ज्ञानेव विना मनुष्य पशु: एव । अत: गुणस्य आभरणं ज्ञानम् । ज्ञानम् अस्ति तथापि क्रोधेन तत् ज्ञानस्य मूल्यं शून्यं भवति । क्षमया सर्वाणि कार्याणि सिध्यन्ति । अत: क्षमा ज्ञानस्य आभरणम् इति सुभाषितकार: वदति ।

३) हिंदी अर्थ--
मनुष्य का आभूषण उसका रुप होता है , रुप ( सौंदर्यवान लोगों का )का आभूषण गुण होता है , गुण (गुणवान लोगों का ) का आभूषण ज्ञान होता है , ज्ञान का ( ज्ञानी जनों का ) आभूषण क्षमा होता है ।

४) English Meaning--
Good looks are the ornament of man, virtue is the ornament of good looks, knowledge is the ornament of virtue and forebearance is the ornament of knowledge.