८) नक्षत्रभूषणं चन्द्रो------।।

नक्षत्रभूषणं चन्द्रो 
नारीणां भूषणं पतिः। 
पृथिवीभूषणं राजा 
विद्या सर्वस्य भूषणम्।।

पदच्छेद-- 
नक्षत्रभूषणम्, चन्द्र:, नारीणाम् , भूषणम् , पति:, पृथिवीभूषणम् ,राजा, विद्या, सर्वस्य , भूषणम्।

शब्दार्थ-- 

१) नक्षत्रभूषणम् > नक्षत्रभूषण (नपुं,समास:)
• नक्षत्राणां भूषणम्।
= नक्षत्रांचे आभूषण 
= नक्षत्रों का आभूषण
= Ornament of the constellations

२) चन्द्र: > चन्द्र (पुं)--
= चंद्र
= चंद्र 
= The moon

३) नारीणाम् > नारी (स्त्री)--
= स्त्रियांचे
= नारियों का
= Of women

४) भूषणम् > भूषण (नपुं)--
= आभूषण
= आभूषण 
= Ornament

५) पति: > पति (पुं)--
= पती
= पति
= The husband

६) पृथिवीभूषणम् > पृथिवीभूषण (नपुं, समास:)--
• पृथिव्या: भूषणम् ।
= पृथ्वीचे भूषण
= पृथ्वी का भूषण 
= The ornament of the earth

७) राजा > राजन् (पुं)--
= राजा
= राजा
= The king

७)  विद्या (स्त्री)--
 = विद्या
 = विद्या 
 = Knowledge

८) सर्वस्य > सर्व (पुं)--
= सर्वांचे 
= सब का 
= Of all

प्रश्न--
१) चन्द्र: केषां भूषणम्?
२) नारीणां भूषणं किम् ?
३) पृथिव्या: किं भूषणम् ?
४) सर्वस्य भूषणं किम् ?

अन्वय--
चन्द्र: नक्षत्रभूषणम् (अस्ति)। पति: नारीणां भूषणम् (अस्ति)। राजा पृथिवीभूषणम् (अस्ति)। विद्या सर्वस्य भूषणं (भवति)।

अर्थ–

१) मराठी अर्थ-- 
सर्व नक्षत्रांचे भूषण चंद्र आहे, स्त्रियांचे भूषण पती आहे, पृथ्वीचे भूषण राजा आहे तर विद्या हे सर्वांचेच भूषण आहे.

२) संस्कृतार्थ:--
 सर्वेषु नक्षत्रेषु चन्द्र: मुख्य, तथा अपरिमितेन ओजसा राजते अत: स: नक्षत्राणां भूषणम् इति कवि: मन्यते । स्त्रीणां भूषण पति: एव अस्ति । नृप: पृथिव्या: भूषणम् अस्ति । तथापि विद्या सर्वेषां भूषणम् अस्ति । अत: विद्या एव सर्वेषु भूषणेषु श्रेष्ठा वर्तते ।

३) हिंदी अर्थ–
नक्षत्रों का भूषण चंद्रमा है , नारियों का आभूषण पति है , पृथ्वी का आभूषण राजा है और विद्या सब का भूषण है ।

४) English Meaning-- 
The moon is the ornament of the constellations, the husband is the ornament of women, the king is the ornament of the earth, whereas knowledge is the ornament of all.